________________
कायचिकित्सा |
१९७
उन्मादिनां उन्मादरोगिणाम् । मन एव मानसम् । उन्मत्तं मनो मानसं येषां ते उन्मदमानसाः तेषाम् । अपस्मृतौ अपस्मारे । भूतैर्देव ग्रहादिभिर्हतोऽभिहत आत्मा मनो येषां ते भूतहतात्मानः तेषाम् । ब्राह्मीरसः सवचो वचासहितः सकुष्ठः कुष्ठेन सह । सशंखपुष्पः शङ्खपुष्प्या सह । ससुवर्णचूर्णः सुवर्णचूर्णेन सहितः स्यात् भवेत् इति ॥ २९० ॥
उन्माद एवं अपस्मार से पीड़ित, जिनका मन विक्षिप्त होगया है एवं भूतावेशयुक्त रोगियों के लिये वचा, कुष्ठ, शंखपुष्पी तथा सुवर्णभस्म, इनके चूर्ण को ब्राह्मरस के साथ सेवन कराना प्रशस्त है ॥ २९० ॥
गुडूची फलत्रिकयोः पृथग् योगद्वयमाह - वाताजिलीपदिनां वमीषु हलीमके पाण्डुषु कामलायाम् । मेदखिनां चापि हिता गुडूची फलत्रयं नेत्रविकारिणाश्च ।। २९१ ।। वातासृजि वातरक्ते श्लीपदिनां श्लीपदरोगिणाम् । वमीषु छर्दिषु । हलीमके च कामलारोगभेदे । पाण्डुषु पाण्डु रोगिषु । कामलायां कामलारोगे । मेदस्विनां स्थूलानां । एषां सर्वेषां गुडूची हिता । नेत्रविकारिणां अक्षिरोगिणां फलत्रयं हितमिति ॥ २९९ ॥
1
वातरक्त, श्लीपद, वमी (कै), हलीमक, पाण्डु, कामला एवं मेदोवृद्धि में गिलोय तथा नेत्ररोगों में त्रिफला हितकर है ॥ २९१ ॥
अतीसारे ज्वरे रक्तपित्ते च पृथग्योगत्रयमाह - हितोऽतिसारे कुटजो ज्वरेषु सपर्पटश्चापि किराततिक्तः । 'सशर्करापि समाक्षिकश्च वासाकषायः खलु रक्तपित्ते ॥ २९२ ॥ अतीसाररोगे कुटजक्काथकल्क चूर्णलेहप्रयोगो हितः । ज्वरेषु सर्वेषु सपर्पटः किराततिक्तको हितः । रक्तपित्ते वासाकषायः शीतः शर्करामधुभ्यां सहितः हित इति ॥ २९३ ॥
अतीसार में कुटज तथा सम्पूर्ण ज्वरों में चिरायता एवं पित्तपापड़ा का प्रयोग हितकर है। रक्तपित्त में अडूसे के क्वाथ में खांड तथा मधु का प्रक्षेप देकर सेवन कराना लाभकर है ॥ २९२ ॥
तृष्णादिषु चतुर्षु रोगेषु पृथग्योगचतुष्टयमाह - तृष्णासु पश्चाम्लकमुद्दिशन्ति प्लीहामये पिप्पलिवर्द्धमानम् । रोहतकचापि यद्विकारे स्याद्विद्रधीनां वरुणः प्रशस्तः ॥ २९३ ॥