________________
१९०
चिकित्साकलिका |
क्षत, क्षय, रक्तपित्त, पानात्यय, उन्माद, मद, अपस्मार, अति स्थूलता, शरीर की कृशता, आलस्य, हलीमक, मूत्रकृच्छ्र प्रभृति रोगों को शान्त करती है ॥२७५-२७६॥ साम्प्रतं रसायनत्वमाह
झटिति जरया सर्वश्वेतैरकालजराक्रतैवृतमलिकुलाकारैरेभिः शिरश्च शिरोरुहैः । वलिवदवलिर्व्यस्तातङ्कं वपुश्च समुद्रहन् प्रभवति शतं स्त्रीणां गन्तुं जनो जनवल्लभः ॥ २७७॥ अलिकुलाकारैः शिरोरुहैः केशैः शिरो वृतं व्यस्तातङ्कं वपुश्च समुद्वहन् जनः स्त्रीणां शतं गन्तुं प्रभवति । शिरो मस्तकम् । झटिति शीघ्रं अकालजरया सर्वश्वतैरेभिः शुक्लैः कृतैः । कैः ? शिरोरुहैः । केशैः शिरोवृतं सत् । अलीनां भ्रमराणां कुलं अलिकुलं अलिकुलस्येव आकारो येषां शिरोरुहाणां ते भवन्त्यलिकुलाकाराः तैर्वृतं शिरः समुद्रहन् । एतदुक्तं भवतीति - अत्यन्तकृष्णैः । वलयो विद्यन्ते यस्मिन् वपुषि तद्बलिवत् । अबलिः अपगता वलिः । व्यस्ता विविधप्रकारेणास्ताः क्षिप्ता आतङ्काः रोगाः यस्य तत् व्यस्तातङ्कं तद्वपुः शरीरम् । समुद्वहन् जनः जनानां वल्लभः प्रियो जनवल्लभः स्त्रीणां शतं गन्तुं प्रभवतीति ॥ २७७॥
इस शिवगुटिका के प्रयोग से वृद्धावस्था अथवा अकालजरा से श्वेत हुए २ शिर के बाल भ्रमर के समान कृष्णवर्ण के होजाते हैं । वलियुक्त शरीर ( जिस शरीर पर झुर्रियां पड़ी हुई हो ) वलीरहित होजाता है तथा इसका सेवक लोकप्रिय एवं नीरोग होकर शतस्त्री गमन में समर्थ होता है ॥ २७७ ॥
साम्प्रतं पुनस्तस्याः शिवगुटिकायाः फलमाह - स्तिमितमतिरप्यज्ञानान्धः सदस्यपटुः पुमान् सकृदपि यया ज्ञानोपेतः श्रुतिस्मृतिमान् भवेत् । ब्रजति च यया युक्तो योगी शिवस्य समीपतां शिवगुटिकया कस्तामेनां करोति न मानुषः ।। २७८ ।। यया युक्तो योगी शिवस्य समीपतां व्रजति । तामेतां शिवगुटिकां मानुषः को न करोति । स्तिमितमतिरपि पुमान् पुरुषः । १ – योगरत्नाकरे तु प्रसरति बलं त्वस्तातंक इति पाठान्तरमुपलभ्यते ।