________________
शोषचिकित्सा।
१९१ स्तिमिता जडा मतिर्यस्यासौ स्तिमितमतिः । अज्ञानान्धःन ज्ञानमज्ञानं अनवबोधः तेनान्धो न किञ्चित् पश्यति । सदसि सभायां अपटुरमुखरः । एवंभूतोऽपि यया कृतया सकृदपि स्तोककालमपि ज्ञानोपेतो ज्ञानसमन्वितः । श्रुतिः श्रवणं, स्मृतिः स्मरणं,ते विद्येते यस्यासौ श्रुतिस्मृतिमान् मानुषः पुरुषो भवति । यया शिवगुटिकया युक्तो योगं गतो योगी मुमुक्षुः शिवस्य समीपतां नैकट्यं ब्रजति गच्छति । कस्तामेतां शिवगुटिकां मानुषो न करोति । अपि तु सर्व एव करोतीति ॥ २७८ ॥
मन्दमति, मूर्ख तथा विद्वत्परिषद् में अप्रगल्भ पुरुष भी जिसके सेवन से ज्ञानयुक्त तथा श्रुति स्मृति सम्पन्न होता है और जिसके प्रयोग से योगी शिव की समीपता को प्राप्त करते हैं उस इस शिवगुटिका को कौन मनुष्य सेवन नहीं करना चाहता अर्थात् इस गुटिका का सेवन प्रत्येक मनुष्य को करना चाहिये ॥ २७८ ॥
अधुनाऽपरमपि शिलाजतुप्रयोगमाहफलत्रिकक्काथविशुद्धमादौ शुद्धं गुडूच्या दशमूलशुद्धम् । स्थिरादिकाकोलियुगादिशुद्धं शिलाजतु स्यात्क्षयिषु प्रशस्तम्॥२७९॥
___ आदौ प्रथमं फलत्रिकं त्रिफला, तस्याः क्वाथेन पूर्ववत् परिभाषया विशुद्धं क्रियते । तदनन्तरं गुडूच्याः । ततो दशमूलेन । अनन्तरं स्थिरादिगणेन पूर्वोक्तेन स्थिरापृथक्पर्णीत्यादिना । ततोऽनु काकोलियुगादिगणेन । काकोलीद्वयमृद्धिवृद्धीत्यादिना शुद्धं शिलाजतु । प्रत्येकमेकैकेन सप्ताहं क्रियते । एवं शुद्धमेषामेव क्वाथैर्यथादोषं पातव्यम् । यत्पीयमानं क्षयिषु क्षयरोगिषु प्रशस्तं स्यात् । तथा च सुश्रतः"तथैव योगं जतुनोश्मजश्मेति" ॥ २७९ ॥
इति शोषचिकित्सा समाप्ता । त्रिफलाक्काथ, गिलोय के क्वाथ, दशमूलक्वाथ, स्थिरादिगण के क्वाथ तथा काकोल्यादिगण के क्वाथ से क्रमशः सात २ वार शोधित शिलाजीत क्षय के रोगियों के लिये अत्यन्त प्रशस्त है । मात्रा-४रत्ती ॥ २७९ ॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां
शोषचिकित्सा समाप्ता ।