________________
૮૮
चिकित्साकलिका |
ततः पुनरेतैर्योजयेदित्याह - तुल्यं पलैः षोडशभिः सितायास्त्वक्क्षीरिकापत्रक केसरैश्च । बिल्वांश कैस्त्वक्त्रुटिसम्प्रयुक्तै
रित्यक्षमात्रा गुटिकाः प्रकल्प्याः || २७३ ।। सिता शर्करा तस्याः षोडशभिः पलैस्तुल्यैः तुल्यप्रमाणैः । त्वक् क्षीरिका तुगाक्षीरी । पत्रं तमालपत्रम् | केसरं नागकेसरं प्रसिद्धम् । त्वक् वराङ्गम् । त्रुटिः एला । एभिर्बिल्वांशकैः पलप्रमाणैः सम्प्रयुक्तैः संयोजितैर्युक्तं शिलाजतु | अक्षमात्राः कर्षप्रमाणाः गुटिकाः प्रकल्प्याः प्रकल्पनीयाः । ताश्च शुष्का नवे घटे जातीकुसुमवासिते स्थाप्या इति ॥ २७२ ॥
तदन्तर उसमें खांड १६ पल, त्वक्क्षीरिका ( वंशलोचन, तवाशीर ), तेजपत्र, नागकेसर, दारचीनी, छोटी इलायची, प्रत्येक का चूर्ण १ पल, मिलाकर कर्षप्रमाण की गुटिका बनावें । शुष्क होने पर चमेली के फूलों से अधिवासित पाल में रक्खें । आधुनिक माला - ८ रत्ती से १६ रत्ती ( २ मासे ) तक ॥ २७३ ॥
इदानीं अस्याः शिवगुटिकायाः प्रयोगविधिमाह - तासामेकतम प्रयुज्य विधिवत्प्रातः पुमान् भोजनात् प्राग्वा मुद्द्रदलाम्बु जाङ्गलरसं शीतं शृतं वा जलम् । माद्विकं मदिरामगुर्वशनभुक् पीत्वा पयो वा गवां प्रामोत्यङ्गमनङ्गवत्सुभगतासंपन्नमानन्दकृत् || २७४ ।।
तासां पूर्वोक्तविधिना कल्पितानां एकतमां प्रयुज्य पुमान् अनङ्गवदङ्गं प्राप्नोति । तासामेकतमां प्रयुज्य प्रकर्षेणोपयोगं कृत्वा विधिवत् स्वस्त्ययनमङ्गलादिविधिना । प्रातः प्रभातकाले भोजनात् प्राग् अग्रे भोजनात् । पुमान् पुरुषः । किं विशिष्टः ? अगुर्वशनभुक् । गुरु च तदशनं गुर्वशनं तदभुङ्क्ते इत्यगुर्वशनभुक् । एतदुक्तं भवति - लध्वशनभोजी । मुद्गदलाम्बु मुद्द्रयूषं ह्यनुपानं यथादोषं यथाव्याधिबलं तं च पीत्वा अङ्गं शरीरं सुभगतासम्पन्नमानन्दकृत् अनङ्गवत् कामदेववत् प्राप्नोतीति ॥ २७४ ॥
१ - योगरत्नाकरेsa माक्षीकमिति पठ्यते ।