________________
शोषचिकित्सा।
१७९ साम्प्रतं चिकित्सितमाहद्विपञ्चमूलीजलसिद्धमाज्यं वासाघृतं वाप्यथ षट्पलं वा । हितं पयश्छागलमव्यवायः प्रयुज्यते नागबलाविधानम् ।।२६१॥
द्विपञ्चमूली दशमूली तस्याः जलं क्वाथः, तेन सिद्धं साधितं आज्यं घृतम् । वासाघृतं वासासंस्कृतं घृतं वासाघृतम् । अथ षट्पलं वा पूर्वोक्तं हितं भवतीति । पयश्छागलं क्षीरम् । अव्यवायश्चास्त्रीसम्पर्को हितो भवतीति । नागबलाविधानं च प्रयुज्यते प्रकर्षेण युज्यते क्रियतइत्यर्थः। अन्यान्यपि रसोनपिप्पलीशिलाजतुविधानानि प्रयुज्यन्ते । इदं तु प्रकर्षण नागबलाविधानम् । तथा च सुश्रुतः- "रसोनयोगं विधिवत् क्षयातः क्षीरेण वा नागबलाप्रयोगम्। सेवेत वा मागधिकाविधानं यथोपयोगं जतुनोऽश्मजस्वेति ॥ २६१ ॥
इस रोग में दशमूलक्वाथ से यथाविधि साधित घृत, अथवा वासाघृत अथवा षट्पल घृत तथा बकरी के दूध, का सेवन, मैथुन त्याग एवं नागबला (गंगेरन) का यथाविधि प्रयोग करना चाहिये ॥ २६१ ॥
अधुना च्यवनप्राशमाहशृंङ्गीतामलकीफलत्रिकबलाछिन्नाविदारीशठीजीवन्तीदशमूलचन्दनघनैर्नीलोत्पलैलावृषैः । मृद्वीकाष्टकवर्गपौष्करयुतैः सार्धं पृथक् पालिकैः अब्द्रोणेन शतानि पश्च विपचेत् धात्रीफलानामतः ॥२६२॥ उद्धृत्यामलकानि तैलघृतयोः षड्भिश्च षड्भिः पलैः भृष्टान्यर्द्धतुलां निधाय विधिवन्मत्स्यण्डिकायाः पचेत् । शीते षण्मधुनः पलानि कुडवं वांश्याश्चतुर्जातकान्मुष्टिर्मागधिका पलद्वयमयं प्राशः स्मृतश्च्यावनः॥२६३॥ 9-शृंगीतामलकीकणोत्पलबलापथ्याष्टवर्गामृताजीवन्तीत्रुटिचन्दनागुरुशठीद्राक्षाविदार्यम्बुदैः। वर्षाभूदशमूलपुष्करवृषैः सार्धं पृथक् पालिकेरब्दोणेन शतानि पञ्च विपचेद्धान्रीफलानामतः ॥ इति पाठान्तरम् ॥