________________
१७८
चिकित्साकलिका।
अथ शोषचिकित्सा। मूत्रकृच्छचिकित्सानन्तरं यथोद्देशं शोषचिकित्सितमाह
शोषातुरस्य ज्वररक्तपित्तकासारुचिश्वाससमन्वितस्य । विड्भेदिनश्चापि हतस्वरस्य
क्रिया न कार्या कुशलैषिभिः ।। २५९ ॥ कुशलैः साध्यासाध्यविभागझैः ईदृशस्य शोषातुरस्य क्रिया न कार्या न करणीया । कीदृग्भूतस्य ? ज्वरादिसमन्वितस्य ज्वराद्यभिभूतस्य । ज्वरश्च रक्तपित्तं च कासश्च अरुचिश्च श्वासश्च ते तथा । तैः समन्वितः संयुक्तः उपद्रतः । विभेदिनश्च अतिसारवतः। हतस्वरस्य स्वरभेदयुक्तस्य । इत्थंभूतस्यासाध्यस्य क्रिया चिकित्सा न कार्या गर्हितत्वात् । तथा च सुश्रतः-"एकादशभिरेतैर्वा षडिवापि समन्वितम् । जह्याच्छोषार्दितं जन्तुमिच्छन् सुविमलं यशः" ॥ २५९ ॥ - कुशल वैद्य को ज्वर, रक्तपित्त, कास, अरुचि, श्वास, अतीसार, स्वरभेद; इन लक्षणों से युक्त राजयक्ष्मा के रोगी की चिकित्सा नहीं करनी चाहिये। यतः उपर्युक्त सम्पूर्ण लक्षणों से युक्त राजयक्ष्मा असाध्य होता है ॥ २५९ ॥
अथ कीदृशस्य सतः कार्या चिकित्सेत्यत आहवित्तान्वितस्यात्मवतश्च जन्तोरमन्दवह्वेरचिरामयस्य । चलोपपन्नस्य सतश्चिकित्सा चिकित्सकैः कस्यचिदेव दृष्टा ॥२६०॥
वित्तं द्रव्यं तेन अन्वितो वित्तान्वितः तस्य । आत्मवतश्च आत्मनो हितस्य । अमन्दवह्नः न मन्दोऽमन्दस्तीक्ष्णो वह्निर्यस्य स भवत्यमन्दवह्निस्तस्य । न चिरमचिरं स्तोकं कालमामयो रोगो यस्य स भवत्यचिरामयस्तस्य। बलं शारीरमोजःसंज्ञं तेनोपपन्नः संयुक्तः । तस्येत्थं भूतस्य जन्तोः सतश्चिकित्सकैवैद्यैश्चिकित्सा कस्यचिदेव शोषातुरस्य सफला दृष्टा चिकित्सेति ॥ २६०॥
__धनाढ्य, पथ्यसेवी, जिसकी जाठराग्नि मन्द न हुई हो, तथा बलयुक्त रोगी का नवीन उत्पन्न हुआ २ यक्ष्मा रोग तो कदाचित् शान्त हो सकता है। परन्तु धनरहित, अपथ्यसेवी, अग्निमान्द्ययुक्त, बलमांस हीन पुरुष का पुरातन राजयक्ष्मा तो सर्वथा असाध्य ही है ॥ २६० ॥