________________
१७०
चिकित्साकलिका। लाजादिवटक-लाजा, अब्जबीज ( कमलबीज, कमलगट्टा ), रसौत, नीलोत्पल, वटाङ्कुर, बिस, कुठ; इन्हें एकत्र मिश्रित कर अनुरूप मधु द्वारा वटक बनावें । इस वटक को तृष्णानाश के लिये मुख में रखना चाहिये ॥ २४४ ॥
वटकानन्तरं तृष्णाघ्नं क्वाथमाहलाजाब्जलामन्जमृणालिकाभिः शृङ्गाटनीलाब्जकसेरुकाभिः । शृतं पयः पीतमनुष्णमेतत् तृष्णां हरेत् क्षौद्रसितासमेतम् ।।१४५॥
___ लाजादिभिः पयः सलिलं शृतं क्वथितमनुष्णं शीतम् । क्षौद्रसिते मधुशर्करे ताभ्यां समेतं संयुक्तं पीतं तृष्णां हरेदिति । अब्जं पद्मम् । लामजमुशीरभेदः । नीलाब्जं नीलोत्पलम् । कसेरुकं राजकसेरुकम् । एभिरिति ॥ २४५॥
इति तृष्णाचिकित्सिा समाप्ता । लाजा, कमल, लामज (उशीरभेद, खवी), मृणाल, सिंघाड़ा, नीलोत्पल, कसेरू, मिलित २ तोले, काथार्थ जल ३२ तोले, अवशिष्ट क्वाथ ८ तोले इस क्वाथ में शीतल होने पर मधु तधा खांड; मिलित आधा तोला का प्रक्षेप देकर पीने से तृष्णा शान्त होती है ॥ २४५॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां तृष्णाचिकित्सा समाप्ता ।
--::--
अथ छर्दिचिकित्सा । तृष्णाचिकित्सानन्तरं यथोद्देशं छर्दिचिकित्सितमाहपथ्याक्षधात्रीमगधोषणानां चूर्ण सलाजाञ्जनकोलमध्यम् । छर्दैि छिनत्याशु समाक्षिकं तु सत्र्यूषणं वाथ कपित्थमध्यम् ।।२४६॥
__ पथ्यादीनां चूर्ण समाक्षिकं मधुसंयुक्तं आशु शीघ्रं छर्दैि छिनत्ति छेदयति । पथ्या हरीतकी । अक्षो विभीतकः । धात्री आमलकम् । मगधा पिप्पली । ऊषणं मरीचम् । एषां चूर्णम् । लाजाश्च अञ्जनं च कोलमध्यं च तानि तथा । एभिः सह वर्त्तत इति सलाजाञ्जनकोलमध्यं चूर्णम् । अञ्जनं रसाञ्जनम् । कोलमध्यं बदमध्यम् । द्वितीयं योगमाह