________________
तृष्णाचिकित्सा। वक्षःक्षते च पठित्तासि रक्तजे च
मूच्छासु च भ्रमिषु शस्ततमा नराणाम् ॥२४३॥ एला च वराङ्गश्च (वराङ्गं त्वक् ) पत्रकं च एतत् त्रितयमप्यर्द्धकर्षांशकम् । मगधजार्द्धपलं पिप्पली अर्द्धपलम् । कल्प्यं कल्पनीयम् । मृद्वीकया द्राक्षया, सितया शर्करया, मधुकेन यष्टीमधुकेन, खजूंरकेणं च पलप्रमितैश्चतुर्भिः मृद्वीकादिभिः प्रयुक्ता एलादिका मधुयुता गुटिका अतिहृद्या । अतिशयेन हृदयाय हिता अतिहृद्या । वृष्या शुक्रजननी। तृषं प्रशमयेत्। रक्तपित्तमपि च प्रशमयेत् । वक्षःक्षतादिषु च नृणां प्राणिनांप्रशस्ततमा अतिशयेन हिता पठिता पूर्वाचारिति॥२४२-२४३॥
इति रक्तपित्तचिकित्सा समाप्ता। एलादिगुटिका-छोटी इलायची १ तोला, दारचीनी १ तोला, तेजपत्र १ तोला, पिप्पली ४ तोले, किशमिश, खांड, मुलहठी, पिण्डखजूर; प्रत्येक १ पल (८ तोले); इन्हें एकत्र मिश्रित कर अनुरूप मधु से गुटिका बनावें। इस गुटिका को मुख में रख धीरे २ चूसना चाहिये। यह गुटिका हृद्य एवं वीर्यवर्धक है । इस के सेवन से तृषा तथा अत्यन्त प्रवृद्ध रक्तपित्त शान्त होता है । यह गुटिका उरःक्षत, रक्तार्श, मूर्छा एवं भ्रम (सिर में चक्कर आना) में प्रशस्त है ॥ २४२-२४३ ॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां
परिमलाख्यायां चिकित्साकलिकाव्याख्यायां . रक्तपित्तचिकित्सा समाप्ता ।
--::--
अथ तृष्णाचिकित्सा। रक्तपित्तचिकित्सानन्तरं यथोद्देशं तृष्णाचिकित्सितमाहलाजाजबीजाञ्जनमुत्पलानि न्यग्रोधरोहः सबिसः सकुष्ठः । क्षौद्रेण युक्तो वटकीकृतश्च तृष्णाविघाताय मुखेन धार्यः ॥२४४॥
डलाजादीनां मधुना वटकं कृत्वा । स वटकः तृष्णाविघातार्थ मुखेन धार्यों धारणीयः। लाजाभृष्टधान्यविशेषः। अब्जबीजं पद्मबीजम् । अञ्जनं रसाजनम् । उत्पलं नीलोत्पलम् । न्यग्रोधरोहो वटप्ररोहः । सबिसः समृणालम् । सकुष्ठः कुष्ठसहितः। क्षौद्रेण मधुना युक्तः संयुक्तः । अवटको वटकीक्रियते स्म वटकीकृत इति ॥ २४४ ॥