________________
रक्तपित्तचिकित्सा।
१६७ पीतानि वासककषायपरिप्लुतानि
नन्ति प्रवृद्धमतिशोणितपित्तरोगम् ॥ २३८ ॥ नीलोत्पलादीनि पीतानि शोणितपित्तरोगं प्रन्ति । नीलोत्पलं सौगन्धिकम् । अम्बुरुहकेशरं पद्मकेसरम् । मृत्सौराष्ट्रमृत्तिका। प्रियंगुः फलिनी । रोधं शबरपादपः । अञ्जनं रसाञ्जनम् । नीलोत्पलादीनां चूर्ण वासककषायपरिप्लुतं शर्करामधुसंयुक्त पीतं अतिप्रवृद्धं शोणितपित्तं रक्तपित्तमपहन्तीति वाक्यार्थः ॥ २३८ ॥
अडूसे के क्वाथ में नीलोत्पल, कमलकेसर, सौराष्ट्रमृत्तिका (फिटकरी) प्रियंगु लोध्र, रसौत; इनके ६ रत्ती चूर्ण का तथा खांड चौथाई तोला एवं मधु चौथाई तोले का प्रक्षेप देकर पीने से अति प्रवृद्ध रक्तपित्त रोग शान्त होता है । २३८ ॥ अधुना खण्डकूष्माण्डमवोचत
कूष्माण्डकात्पलशतं कुडवैश्चतुर्भिभृष्टं घृतादनु पचेत्समखण्डमेतत् । विश्वावजीरककणापलषटकयुक्तं त्वङ्नागपुष्पवृटि-पत्रपलद्वयेन ॥ २३९ ।। एतत्पुराणमधुनः कुडवद्वयेन संयोजितं जयति जन्तुषु रक्तपित्तम् । ऊवं प्रवृत्तमपि गुह्यगुदप्रवृत्तमस्मात्परं भुवि भवेदपरं न हृद्यम् ॥ २४० ॥ मूत्रं सकृच्छ्रमरुचिं च वमिं सतृष्णां मूर्छामपस्मृतिमुरःक्षतमूर्ध्ववातम् । उन्मादमप्यपहरेदतिवृष्यमर्शो
रक्तात्मकं च शमयेद्विदधाति बुद्धिम् ॥ २४१ ॥ कूष्माण्डकात् स्विन्ननिष्कुलीकृतात् पलशतम् । घृतकुडवैश्चतुर्भिर्वात्रिंशत्पलैभृष्टं लुलितं मधुनिभं मधुसम खण्डस्य पलशतेन युक्तं अनु पश्चात् विपचेत् । विश्वादीनां चूर्ण पलषट्कयुक्तम् । विश्वाहूं शुण्ठी। जीरकमजाजी। कणा पिप्पली। तावत्पचेत् यावदवलेहानु- .