________________
चिकित्साकलिका |
अथ रक्तपित्तचिकित्सा ।
श्वासकास चिकित्सानन्तरं यथोद्देशं रक्तपित्तचिकित्सितमाहकल्केन यष्टीमधुकस्य सर्पिर्विदा रिकन्दद्रवदुग्धसिद्धम् । सशर्करं नागबलाविदारीशतावरीभिश्च पृथग्विपक्कम् ॥२३६॥ दूर्वाविदारीक्षुशतावरीणां रसैरुशीरोत्पलशर्कराभिः । मृद्वीकया राजकसेरुकैर्वा विपक्कमाज्यं पयसास्रपित्ते ॥ २३७ ॥
१६६
अस्रपित्ते रक्तपित्ते । सर्पिर्यष्टीमधुकस्य कल्केन विदारिकन्दद्रवदुग्धसिद्धं हितम् । घृतस्य द्वात्रिंशत्पलानि यष्टीमधुकपलं चतुष्टयेन विदारीकन्दद्रवदुग्धाभ्यां चतुर्गुणाभ्यां साध्यते । सशर्करं शर्कराकल्केन वा पक्कम् । नागबलाविदारीशतावरीभिः पृथक् क्वथिताभिः पृथग्घृतानि त्रीणि तदाख्यानि रक्तपित्तहराणि । दूर्वादिरसैर्वा चतुर्भिरुशीरोत्पलशर्कराभिः कल्कीकृताभिः पकं घृतमसृक्षित्ते ॥ मृद्वीकया कल्कीकृतया राजकसेरुकैर्वा कल्कीकृतैर्विपक्कमाज्यं पयसा दुग्धेन चतुर्गुणेनासृपित्ते हितमिति ॥ २३६–२३७ ॥
घृत २ प्रस्थ । विदारीकन्द का रस ८ प्रस्थ । दूध ८ प्रस्थ । कल्कार्थ - मुलहठी ४ पल । यथाविधि सिद्ध करें । इस घृत को शर्करा के साथ रक्तपित्त में प्रयुक्त कराना चाहिये। इसी प्रकार नागबला, विदारीकन्द तथा शतावर; इनके क्वाथ एवं कल्क से पृथक् २ पाक कर क्रमशः नागबलाघृत, विदारीघृत, एवं शतावरीघृत तय्यार करें । तथा च दूर्वा (दूब ), विदारीकन्द, इक्षु ( ईख ), शतावर; इनके रस तथा खस, नीलोत्पल, खांड; इनके कल्क द्वारा यथाविधि घृतपाक करें । अथवा द्राक्षा के कल्क से तथा कसेरू के कल्क से पृथक् २ चतुर्गुण दुग्ध एवं जल द्वारा घृत पाक करें । ये सम्पूर्ण घृत रक्तपित्त में हितकर हैं ॥ २३६–२३७ ॥
साम्प्रतं वासादिकं योगमब्रवीत्
नीलोत्पलाम्बुरुहकेसरमृत्प्रियङ्गरोधाञ्जनानि मधुना सितया युतानि ।
१ - यद्यपि स्नेहपाके त्वनिर्दिष्टप्रमाणे समुदितस्य द्रवस्य पादेन स्नेहो योज्यस्तत्पादेन च कल्कः इति साधारणो नियमस्तथापि शौनकमतेनान्राष्टमांशत्वमेव युक्तं घृतस्य स्वरसेन पाक निर्देशात् । अधीते च शौनकः- “स्नेहे सिध्यति शुद्धाम्बुनिष्काथस्वरसैः क्रमात् । कल्कस्य योज्ययेदंशं चतुर्थं षष्टमष्टमम्” इति ॥