________________
चिकित्साकलिका। जिसने स्वल्प शास्त्रों का अध्ययन किया है-ऐसे वैद्य की सुश्रुत आदि शास्त्र रूपी समुद्र में बुद्धि अज्ञानवश प्रसरित नहीं हो सकती परन्तु हमारे द्वारा बनाये हुए योगसमुच्चय में तो मूर्ख तथा अभिज्ञ चिकित्सक दोनों की बुद्धि अच्छी प्रकार प्रसृत होती है ॥ ३॥
इदानीं सकलायुर्वेदाधिष्ठानभूतस्य सदसत्कर्मनिबद्धस्य कर्मपुरुषस्य शरीरं व्याचिख्यासुराह
यद्भपयः शिखिसमीरवियद्भिरेभिभूतंर्गुणैरपि च सत्वरजस्तमोभिः । त्वग्दोषधातुमलमर्मशिरादिभिश्च
व्याप्तं वपुस्तनुभृतामिदमत्र रोगाः ॥४॥ यद्वपुस्तनुभृतां व्याप्तमत्र रोगाः सभवन्तीति क्रिया। कैप्प्तं ? एभिर्भूतैः । कतमैः ? भूपयःशिखिसमीरवियद्भिः । भूश्च पयश्च शिखी च समीरश्च वियच्च तानि तथा तैयाप्तम् । व्याप्तत्वं तु तन्मयं पञ्चभूतविकाररूपम् । तथा चोक्तं चरकाचार्येण–'गर्भस्तु खल्वन्तरिक्षवाय्वग्नितोयभूमिविकारश्चेतनाधिष्ठानभूत' इत्यादि । तद्गुणत्वं पञ्चमहाभूतगुणोपलब्धितः । तथा च चरकाचार्यः-खरद्रवचलोष्णत्वं भूजलानिलनेजसाम् । आकाशस्याप्रतीघातो लिङ्गमुक्तं यथाक्रमम्" ॥न केवलं भूतैर्गुणैरपि यद्वपुर्याप्तम् । गुणबाहुल्याद्विशिनष्टि सत्त्वरजस्तमोभिः । सत्वं च रजश्च तमश्च सत्वरजस्तमांसि तैः सत्वरजस्तमोभिस्तैप्तिं तन्मयत्वतद्गुणाभ्याम् । तथा च शारीरे सुश्रुताचार्यः-'तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत् । तैश्च तल्लक्षणः कृत्स्नो भूतग्रामो व्यजन्यत' ॥ तन्मयत्वं गुणैः कारणकार्यत्वेन सर्वेषामेव भूतानाम् । तथा चोक्तं शारीरे सुश्रुताचार्येण- सत्वबहुलमाकाशम् । रजोबहुलो वायुः । सत्वरजोबहुलोऽग्निः । सत्वरजस्तमो बहुला आपः । तमोबहुला पृथिवी । इयं कारणभूता व्याप्तिः । कार्य्यभूतव्याप्तिरपि सुश्रुतेनैवोक्ता-'आन्तरिक्षास्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता व। वायव्यास्तु स्पर्शः स्पर्शेन्द्रियं सर्वचेष्टासमूहः सर्वशरीरस्पंदनं लघुता च । तैजस्यं रूपं रूपेन्द्रियं वर्णः संतापा भ्राजिष्णुता पक्किरमर्ष