________________
चिकित्साकलिका। स्तैक्ष्ण्यं शौर्य च । आप्या रसो रसेन्द्रियं सर्वद्रवसमूहो गुरुता शैत्यं स्नेहो रेतश्च । पार्थिवास्तु गन्धो गन्धेन्द्रियं सर्वमूर्तसमूहो गुरुता चेति । तद्गुणत्वं च भूतानाम् । सात्विका आनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्मास्तिक्यं शातिर्बुद्धिर्मेधाधृतिः स्मृतिरनभिषङ्गश्च । राजसाः दुःखशीलत्वमटनशीलताधृतिरहंकारोऽनृतत्वमकारुण्यं दम्भो मानो हर्षः कामः क्रोधश्च । तामसा विषादित्वं नास्तिक्यमधर्मशीलता बुद्धिनिरोधोऽज्ञानं दुर्मेधस्त्वं अकर्मशीलत्वं निद्रालुत्वं चेति'। न केवलं गुणैर्व्याप्तं त्वग्दोषधातुमलमर्मशिरादिभिश्च व्याप्तम्। त्वगादिव्याप्तिश्च, तैर्व्यवस्थितिः । त्वचश्च दोषाश्च धातवश्च मलाश्च मर्माणि च शिराश्च, त्वग्दोषधातुमलमर्मशिरास्त आदौ येषां ते तथा। आदिग्रहणात् कलाशयपेशीस्नायवस्थिसंधिधमनीप्रभृतीनां ग्रहणम् । तथा चोक्तं सुश्रतेन-त्वचः सप्त, कलाः सप्त, धातवः सप्त, आशयाः सप्त, सप्त शिराशतानि, पञ्च पेशीशतानि, नव स्नायुशतानि, त्रीण्यस्थिशतानि, द्वे दशोत्तरे सन्धिशते, सप्तोत्तरं मर्मशतं, चतुर्विंशति धमन्यः, त्रयोदोषास्त्रयो मलाः, नव स्रोतांसीति समासः' । तैव्याप्तं वपुः शरीरं पञ्चमहाभूतशरीरिसमवायः। केषां ? तनुभृतां । तनुः शरीरं बिभ्रति ये ते तनुभृतः कर्मपुरुषास्तेषामिदम् । एतत्पूर्वोक्तप्रकारेण पञ्चमहाभूतगुणत्वग्धात्वादिव्याप्तम् । अत्र रोगा भवन्ति रोगाः प्रजायन्ते । अत्र इत्यधिकरणत्वेन विनिर्दिशति । तथा चोक्तं सुश्रुतेन-तस्मिन् क्रिया सोऽधिष्ठानमित्यादि' । रोगा इति सामान्येन जातिनिर्देशः । तेन शारीरागन्तुमानसस्वाभाविकभेदभिन्नाश्चतुर्विधा अपि गृहीताः । तथा चोक्तं सुश्रुताचार्येण-'ते चतुर्विधाः । आगन्तवः शारीरा मानसाः स्वाभाविकाश्चेति । शारीरा ज्वरकुष्ठाद्याः क्रोधाद्या मानसाः स्मृताः। आगन्तवो ऽभिघातोत्थाः सहजाः क्षुत्तृडादयः'।तथा आदिजन्मदोषकालसंघातदैवस्वभावबलप्रवृत्ताः सप्तविधास्तेनैव सुश्रुतेनोक्ताः । वक्ष्यामाणाश्च वातादिभेदेन । ते सर्वत्र वपुषि रोगा भवन्तीति । अथ कोऽयं रोगो नाम ? कर्मपुरुषस्य दुःखसम्बन्धः । तथा चोक्तं सुश्रुतेन"तदुःखसंयोगा व्याधय इत्युच्यन्ते" । तथान्यैरप्युक्तम् “विकृतदोषदृष्यसमवाया विकारः। " तथा च चरकः-"विकारो धातुवैषम्यं