________________
चिकित्साकलिका |
प्रसिद्धा अतिप्रसिद्धास्तैरतिप्रसिद्धैः । अतिप्रसिद्धत्वं तु पारम्पर्याविच्छेदस्मरणात् । अतिप्रसिद्धैः प्रख्यातैरित्यर्थः । पुनरपि त एव विशेष्यन्ते । धान्वन्तरीयरचनारुचिरप्रपञ्चैर्योगेर्गणैश्च । धन्वन्तरेरिमे धान्वन्तरीयाः शिष्यास्तेषां रचना सम्यक्करणं तया रुचिरः शोभनः प्रपञ्चो येषां ते तथा । प्रकर्षेण विवेचनमिति ॥ २ ॥
हारीत, सुश्रुत, पराशर, भोज, भेल, भृगु, अग्निवेश, चरक आदि चिकित्सकों द्वारा कहे गये तथा धन्वन्तरि के शिष्यों द्वारा बनाये हुए ग्रन्थों से अतिप्रसिद्ध एवं गुणयुक्त योगों तथा गणों का संग्रह कर इस ग्रन्थ का निर्माण किया है ॥ २ ॥
इदानीं पूर्वोक्तेन प्रकारेण विशिष्टयोगैर्या योगमाला कृता तस्याः सदसद्वैद्यादरकथनार्थमाह
स्वल्पश्रुतस्य भिषजः किल सुश्रुतादिशास्त्रोदधौ मतिरबोधदृढप्रमूढा । अस्मद्विधग्रथितयोगसमुच्चये तु
नाति बुद्धिमबुधः सुभिषग्वरो वा ||३||
बुद्धि बनातीति क्रिया । क ? अस्मद्विधप्रथितयोगसमुच्चये । अस्मद्विधैरित्येतन्निन्दास्तुतिपरं वचनम् । ग्रथितः सुश्लिष्टः रचितो योगसमुच्चयः तस्मिन् । अबुधोऽपण्डितो बध्नाति बुद्धिम् । तुशब्दोऽत्रनिपातो हेत्वर्थे द्रष्टव्यः । नानाप्रकारेष्वर्थेषु निपतन्तीति निपाताः । यस्मादबुधः स्वल्पश्रुतो भवति । स्वल्पं स्तोकं श्रुतं येन स तथा । तस्य इत्थम्भूतस्य भिषजो वैद्यस्य किल या मतिः । किलेति बाहुल्यं द्योत - यति । सा च अबोधेन अनवगमेन दृढं अतिशयेन प्रमूढा 'चिन्ताविचारणाशून्येति यावत् । कस्मिन् ? सुश्रतादिशास्त्रोदधौ, सुश्रतादीनां शास्त्रं सुश्रुतादिशास्त्रं तदुदधिरिव अर्थगाम्भीर्यात्, तस्मिन् साँ विचा रणाशून्येतिकृत्वास्मद्विधविरचिते स्तोकयोगसमुच्चये तु बध्नाति बुद्धिं अबुध इति निन्दा | सुभिषग्वरो वा बुद्धिमाबध्नाति । शोभना भिषजः सुभिषजस्तेषां वरः श्रेष्ठः । स यस्मात् सारग्राही । अस्मद्विधैः संग्रहपरैरायुर्वेदोदधिनिमग्नयोगरत्नोद्धरणलम्पदैर्विरचिते योगसमुचये बध्नाति बुद्धि मतिमिति स्तुतिः ॥३॥