________________
श्वासकासचिकित्सा। जठरस्योदरस्य जठरता मेदुरत्वं नैव । नाग्नेः जठराग्नेरपाटवमपटुत्वमसमर्थत्वम् । अनेन नवायसेन कृतेनेति ॥ २२३-२२४ ॥
। इति पाण्डुरोगचिकित्सा समाप्ता ॥ नवायसचूर्ण-कालीमिर्च, पिप्पली, सोंठ, हरड़, बहेड़ा, आंवला, चित्रक, मोथा, वायविडंग; प्रत्येक १ कर्ष (२ तोले), लोहभस्म ९ कर्ष; इन्हें एकत्र मिश्रित कर मधु के साथ रोगी चाटे । माता-१ रत्ती से ४ रत्ती तक। इसके सेवन से प्रमेहपिटिका, पाण्डु, स्थूलता, वार्धक्य, कुष्ट, उदर में मेदोवृद्धि तथा मन्दाग्नि प्रभृति रोग नष्ट होते हैं ॥ २२३-२२४॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां पाण्डुरोगचिकित्सा समाप्ता।
-- -- अथ श्वासकासचिकित्सा। पाण्डुरोगचिकित्सानन्तरं यथोद्देशं श्वासकासचिकित्सितमाहयुक्पञ्चमूलीतुलया समेतं शतं प्रकल्प्य द्विजयष्टिकायाः । हरीतकीनां च शतं जलस्य द्रोणद्वयेन प्रपचेद्विधिज्ञः ॥ २२५ ॥ काथेन तत्रैव हरीतकीस्ताः स्विन्नाः समेतास्तुलया गुडस्य । पक्त्वावलेहः शिशिरे च तस्मिन् क्षौद्रं क्षिपेदष्टपलप्रमाणम् ॥२२६॥ पलत्रयं च त्रिकटोर्विचूर्ण्य पलं चतुर्जातकभेषजानाम् । इत्यश्विनोआर्यभयावलेहः प्रयुक्तमात्रोऽयमिहाचिरेण ॥२२७॥ श्वासं जयेत् पञ्चविधं च कासं शोषं षडेकादशरूपमुग्रम् । हिकां कर्फ छर्दिमुरोविकारमरोचकं मेहमपस्मृतिश्च ॥ २२८ ॥
युपञ्चमूली दशमूली । तस्यास्तुला तया समेतं संयुक्तम् । शतं प्रकल्प्यं प्रकल्पनीयम् । कस्याः ? द्विजयष्टिकायाः ब्राह्मणयष्टिकायाः । हरीतकीनां च शतं प्रकल्प्यम् । हरीतकीफलानां शतं प्रकल्प्यम् । एतजलस्य सलिलस्य द्रोणद्वयेन द्वाभ्यां द्रोणाभ्यां विपचेत् विधिको वैद्यः । अथानन्तरं ताः स्विन्ना हरीतक्यस्तत्रैव काथे पक्त्वा गुडस्य