________________
१६०
चिकित्साकलिका। सिक्त्वा च मूत्रे सकृदेव तत्र । लौहं च किट्ट बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव । एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदाश्विता तत् । तक्रोदनाशी विजयेत रोगं पाण्डं तथा दीपयतेऽनलं वा॥ श्री जेजटाचार्यणाप्ययमेव व्याख्यात इति दर्शनादस्माभिरेवं व्याख्यातम् ॥ २२१-२२२ ।।
विभीतकलवण-मण्डर को अग्नि में लाल करके सातवार गोमूत्र में बुझावें इसी प्रकार समपरिमाण में सैन्धानमक की डली को तपाकर उसी गोमूत्र में एक वार बुझावें । पश्चात् दोनों को पांच गुने गोमूत्र में पीस एक मट्टी की हांडी में डाल बहेड़े की लकड़ी की आंच पर पकावें । जब यथावत् पाक होजाय अर्थात् जलीयांश उड़ जाय तथा औषध पूर्णरूप से शुष्क होजाय तब हांडी को नीचे उतार लें और औषध को निकाल बारीक पीस लें। माता-२ रत्ती । अनुपान-छाछ अथवा मधु । यह पाण्डुरोगियों के लिये अत्यन्त हितकर औषध है । पाण्डुरोग के नाश के लिये इससे बढ़कर अन्य औषध नहीं ॥ २२१-२२२ ॥ अधुना नवायसं चूर्णमाह
सत्यूषणानि सफलत्रिकचित्रकाणि साम्भोधराणि सविडङ्गफलानि च स्युः । कर्षाणि लोहरजसश्च नवेतिचूर्ण मेतन्नवायसमिदं मधुनावलिह्यात् ।। २२३ ।। न स्युः प्रमेहपिटिका न च पाण्डुरोगाः स्थौल्यं तनौ स्थविरता न च शीघ्रमेति । नो कुष्ठरुक् जठरता जठरस्य नैव
नाग्नेरपाटवमनेन नवायसेन ॥ २२४ ॥
सत्र्यूषणानि सत्रिकटूनि । सह फलत्रिकचित्रकैः वर्तत इति सफलत्रिकचित्रकाणि । साम्भोधराणि समुस्तकानि । सविडङ्गफलानि विडङ्गफलसहितानि । स्युर्भवेयुः। लोहरजसःलोहचूर्णस्य नवकर्षाणि । एतत् चूर्ण नवायसम् । इदं च मधुना सह अवलेह्यम् । न स्युन भवेयुः प्रमेहपिटिकाः । न च पाण्डुरोगाः । स्थौल्यं स्थूलत्वम् । तनौ स्थविरता वृद्धत्वं न च शीघ्रमेत्यागच्छति । नो कुष्ठरुक् कुष्ठविकारः।