________________
पाण्डुरोगचिकित्सा। जब यथावत् गाढा होजाय तब पिप्पलीमूल आदि के चूर्ण का प्रक्षेप देकर अच्छी प्रकार आलोडन करलें । इस प्रकार अवलेह-पाक विधि द्वारा पाक करके तीन रत्ति या चार रत्ति परिमाण के वटक बनावें । अनुपान-तक । इन वटकों के सेवन से पाण्डु, शोथ, प्रमेह, बधिरता तथा उरुस्तम्भ प्रभृति रोग नष्ट होते हैं। मण्डुरचूर्ण तय्यार करने लिये पुरातन मण्डूर को अग्नि में तपा कर बहुशः गोमूत्र में बुझाना चाहिये । परन्तु मण्डूरचूर्ण की जगह यदि मण्डूरभस्म का प्रयोग किया जाय तो लाभ अधिक होगा ॥ २१९–२२० ॥
____ अथानन्तरं विभीतकलवणमाहकृत्वाग्निवर्ण मलमायसं च मूत्रेऽभिषिश्चेद्बहुशो गवां च । तत्रैव सिन्धूत्थसमं विपाच्य निरुद्धधूमं च विभीतकाग्नौ ॥२२१॥
तक्रेण पीतं मधुनाथवापि विभीतकाख्यं लवणं प्रयुक्तम् । पाण्ड्वामयिभ्यो हितमेतदस्मात्पाण्ड्वामयन्नं न हि किञ्चिदन्यत् ॥ २२२ ॥
अयो लोहं तस्मान्मलं लोहकि तप्त्वाग्निवर्ण कृत्वा गवां मूत्रेबहुशोऽभिषिञ्चत् सप्तवारान् । सिन्धूत्थसमं सिन्धूत्थतुल्यं सिन्धूत्थमपि निर्वापयेत् एकवारम् । तत्रैव गोमूत्रे पञ्चगुणे पिष्टा विपाचयेत् । निरुद्धधूमं बिभीतकाग्नौ । बिभीतककाष्ठैर्योऽग्निस्तस्मिन् तावत् विपाचयेत् यावत् लवणतुल्यं भवति । ततश्च चूर्णीकृतं तक्रेण मथितेन पीतं अथवा मधुना प्रयुक्तमेतद् विभीतकलवणं पाण्ड्वामायिभ्यः पाण्डुरोगिभ्यो हितमेतदस्मात् बिभीतकलवणादन्यत् पाण्ड्वामयघ्नं न तथा यथेदमिति ॥ अयं योगः सौश्रतः पाण्डुरोगे–“सिन्धूद्भवं चाग्निसमं च कृत्वा
१-सुश्रुतेन त्वस्य विभीतकाग्निना पाको नोक्तः, न च तेन विभीतकलवणमित्याख्या स्वीकृता । परं तीसटाचार्येणाव्यवहितपूर्वोक्तात् दग्ध्वाक्षकाष्ठेमलमायसं वेत्यादि सौश्रुताद्योगात् दग्ध्वाक्षकाष्ठैरित्यनुवांस्य पाक उक्तः । विभीतकाग्निना च कृतेऽपि पाके विभीतकलवणमित्याख्यास्य योगस्य न तथा हृदयंगमा यथा मण्डूरलवणमिति । एवं च विभीतकाख्यमित्यत्र मूलपाठे मण्डूरकाख्यमिति पाठः कर्त्तव्यः । तथा च यद्यपि सुश्रुतेन निरुद्धधूमं पचेदिति नोक्तं तथापि “उखायां स्थाल्यां निक्षिप्य मुखं पिधाय पचेत्” इति निबन्धसंग्रहवचनमनुसृत्य निरुद्धधूम एव पाकः कर्त्तव्यः । एवं च निरुद्धधूमं इति पठनं युक्तमेव ।