________________
चिकित्साकलिका ।
अथ पाण्डुरोगचिकित्सा ।
प्रेमहचिकित्सानन्तरं यथोद्देशं पाण्डुरोगचिकित्सितमाह - सग्रन्थिकान्दचविकासुरदारुदावींमाक्षीकधातुभिरिदं सविडङ्गभागैः । चूर्णं कटुत्रिकफलत्रिकचित्रकैश्व
मण्डूरकं द्विगुणमष्टगुणं च मूत्रम् ।। २९९ ।। . पक्त्वावलेहवदनेन कृताः प्रयुक्ताः मण्डूरकाख्यवटकास्त्वनुपीततक्राः । पाण्ड्वामयं श्वयथुयुक्तमपि प्रमेहं
बाधिर्यमूरुजडतां च जयन्ति जन्तोः ॥ २२० ॥ कटुत्रिक फलत्रिक चित्र कैरिदं चूर्ण कृत्वा द्विपलिकान्यष्टाविंशतिपलानि भवन्ति । चूर्ण मण्डूरक द्विगुणम् । मण्डूरकस्य षट्पञ्चाशत्पलानि । शेषाणि प्रसिद्धानि । एषां चतुर्दशानां द्रव्याणाम् । कीदृग्गुणविशिष्टैः कटुत्रिकादिभिः ? सग्रन्थिकादिभिः सविडङ्गभागैश्च । ग्रन्थिकं पिप्पलीमूलम् । अयं मुस्तम् । दार्वी दारुहरिद्रा । तदेकत्र चतुरशीतिपलानि । सर्वेषामष्ट गुणं मूत्रम् द्वासप्तत्याधकानि षट्ातपलानि । मण्डूरकं लोहकिट्टानुकारि धातुद्रव्यंम् । एतत्सर्वमेकत्र पक्त्वा अवलेहवदवलेहविधिना । अनेन कृता वटका मण्डूरकाख्याः मण्डूरवटकाः प्रयुक्ता भक्षिताः । अनुपीततकाः, अनु पश्चात् पीतं तक्रं येषां ते तथा । पाण्ड्वामयादीन् जयन्ति । तकवाट्या शिनो जन्तोः बाधिर्य स्थूलत्वं ऊरुजडता मूरुस्तम्भश्च । तत्रवाट्याशन इति इति चरकवचनादनुक्तमपि व्याख्यातमिति ॥
१५८
मण्डूरवटक – पिप्पलीमूल, मोथा, चव्य, देवदारु, दारहल्दी, स्वर्णमाक्षिक भस्म, वायविडङ्ग, त्रिकटु, त्रिफला, चित्रक, प्रत्येक समभाग । सम्पूर्ण चूर्ण से दुगना मण्डूर चूर्ण । मण्डूरचूर्ण से आठगुणा गोमूत्र । गोमूत्र में मण्डूरचूर्ण को डाल पकावें । पकाते २
१ - यद्यपि मण्डूरं लौहकिट्टमेव परं लौहकिट्टानुकारि धातुद्रव्यमित्युक्त्या तस्य कालेन पिण्डीभूतत्वं ख्यापयंष्टीकाकारः सर्वश्रेष्ठं शतवार्षिकं मण्डूरं ग्राह्यत्वेनातिदिशति । यथोक्तं रसतरंगिण्याम् — “षष्टिवर्षीयमधमं मध्यं सप्ततिवार्षिकम् । सर्वश्रेष्ठं समाख्यातं मण्डूरं शतवार्षिकम् ” - इति ॥
1