________________
१५७
प्रमेहचिकित्सा। इत्येभिर्दशपालिकैः शृतमपां द्रोणं पृथक् प्रास्थिकैरोभिश्चापि कुलत्थकोलयवकैः पादावशेषीकृते ॥ २१७॥ तस्मिन्नीपविडङ्गरोहिषकणाकम्पिल्लविश्वौषधैर्भार्गीचव्यगजाह्वपिप्पलियुतैरेभिश्च सिद्धं घृतम् । एतन्मेहहरं क्षतक्षयहरं हिमापहं गुल्मजित् पाण्डुत्वप्रतिघाति हद्गुदगदप्रध्वंसि धान्वन्तरम् ॥२१८॥
एभिर्दन्त्यादिमिर्युक्पञ्चमूलीयुतैः प्रत्येकं दशपालिकैरेभिश्च कोलयवकैः पृथक् प्रास्थिकैः। अपां द्रोणं शृतं क्वथितम् । क्वाथे न पादावशेषीकृते तस्मिन्नीपादिभिः अर्द्धपालिकैः कल्कीकृतैघृतप्रस्थमात्रं सिद्धं धान्वन्तरं नाम । शलाटुर्बिल्वम् । दहनश्चित्रकः। स्नुक् सेहुण्डः । वर्षाभू पुनर्नवा । करञ्जयुग्मं वृक्षकरञ्जचिरिबिल्वौ । युक्पञ्चमूली दशमूलम्। कोलं बदरम् । पृथक् प्रास्थिकैः प्रस्थप्रमाणैः । नीपं निचुलम् । रोहिषं कतृणम् । कणा पिप्पली। कम्पिल्लकं रोचनिका । विश्वौषधं शुण्ठी । गजाह्वा हस्तिपिप्पली । शेषाणि प्रसिद्धानि । एतद्धान्वन्तरघृतं प्रमेहहरं क्षतक्षयहरं क्षयः शोषस्तस्य हरं विनाशकरम् । हिमा हिक्का तामपहन्तीति । गुल्मजित् गुल्मं जयतीति । पाण्डुत्वं पाण्डुरोगं तत्प्रतिहर्तृ शीलं यस्य तत्पाण्डुत्वप्रतिघाति । हृद्गुदरुजाप्रध्वंसि हृच्च गुदं च हृद्गुदे तयो रुजो व्याधयः ताः प्रध्वंसितुं शीलं यस्य तत्तथा । धान्वन्तरं धन्वन्तरिणा प्रोक्तमिति ॥ २१७-२१८॥
इति प्रमेहचिकित्सा समाप्ता । धान्वन्तरघृत-गव्य घृत २ प्रस्थ। क्वाथार्थ-दन्तीमूल, देवदारु, कचूर, बेलगिरी, चित्रक, शुद्ध भिलावे, मदार की जड़, हरड़, सेहुण्ड की जड़, लाल पुनर्नवा, श्वेत पुनर्नवा, वृक्षकरञ्जबीज, लताकरञ्जबीज, वरुणछाल, दशमूल, (मिलित); प्रत्येक १० पल कुलत्थ, कोल (बेर), जौ, प्रत्येक प्रस्थ, जल ४ द्रोण, अवशिष्ट क्वाथ १ द्रोण । कल्कार्थ-नीप (निचुल), वायविडङ, रोहिष तृण, पिप्पली, कमीला, सोंठ, भारंगी, चव्य, गजपिप्पली, प्रत्येक आधा पल । यथाविधि पाक करें। इस घृत के प्रयोग से प्रमेह, क्षतक्षय, हिक्का गुल्म, पाण्डु, हृद्रोग, तथा गुदारोग नष्ट होते हैं ॥ २१७-२१८॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां
प्रमेहचिकित्सा समाप्ता ।