________________
श्वित्रचिकित्सा |
अर्शांसि शोषमुपदंशशिरोविकारवल्मीकगुल्मगलगण्डगलामयांश्च । ग्रन्थ्यर्बुदश्वयथुमारुतरुक् प्रमेह
मोहान् हरेद्बहुविधं विषमज्वरश्च ।। २१५ ।।
एताश्चतस्रः काकाह्लादयस्तुलाभागिकाः कल्प्याः कल्पनीयाः । काकाह्रा काकमाचीविशेषः गौरभुंभुलका इति । शम्याकः आरोग्यशिम्बिः । त्रिफला फलत्रिकं तस्याढकत्रययुता । एवं दन्त्यादीनां सर्वेषां तुला कल्पिता । क्षुद्रा कण्टकारिका । शेषाणि प्रसिद्धानि । तोयद्रोणचतुष्टयेन सर्वाण्येतानि विपचेत् । पादावशेषे क्वाथे घृतपात्रं विपचेदिति । कीदृग्गुणविशिष्टं घृतपात्रम् ? सगोशकृद्रसो गोमयो रसः दधि च क्षीरं च सह एभिर्वर्त्तत इति सगोशकृद्रसदधिक्षीरं तत्तथा । सह मूत्रेण वर्त्तत इति समूत्रम् । पृथक् प्रत्येकमेषां पात्रमाढकमात्रं घृते देयमिति । भूनिम्बादिभिः पलमितैः पलप्रमाणैः कल्कीकृतैर्विपचेत् । भूनिम्बः किराततिक्तः । उत्पलं नीलमुत्पलम् । श्यामा वृद्धदारुकम् । करओ वृक्षकरञ्जः । इङ्गुदस्तापसवृक्षः । अवल्गुजो बाकुचिका | शि शोभाञ्जनकम् । नीली नीलाञ्जनिका शारदा । शेषाणि प्रसिद्धानि । एतन्महानीलमतिप्रसिद्धं प्रख्यातं श्वित्रमपहन्तीति श्वित्रापहं, कुष्ठग. दानपहन्तीति कुष्ठगदापहञ्च । विसर्पादीन् हन्तीति । अर्शःप्रभृतींश्च हरेत् । विषमज्वरं बहुविधं नानाप्रकारं हरेदिति । एतन्महानीलं हारीतोक्तं तीसटाचार्येणोक्तमिति ॥ २१२ - २१५ ॥
1
१५५
इति श्वित्रचिकित्सा समाप्ता ।
महानीलघृत—गव्यघृत–२ आढक । क्वाथार्थ - काकावा ( काकनासा, कौआठोडी), मदयन्तिका (मल्लिका, मोतिया ), सुरसा (तुलसी), अमलतास; प्रत्येक १ तुला, त्रिफला (मिलित) ३ आढक, दन्तीमूल, चित्रक, मकोय, वरुणछाल, छोटी कटेरी, हल्दी, दारहल्दी, कुटजछाल, खदिरकाष्ट, मदार की जड़; मिलित १ तुला, जल ८ द्रोण; अवशिष्ट क्वाथ २ द्रोण । गोमयरस २ आढक, दही २ आढक (८ प्रस्थ) दूध २ आढक । कल्कार्थ - चिरायता, त्रिकटु, नीलोत्पल, विधारामूल, वृक्षकरञ्जबीज, हिंगोट, नीम की छाल; बाकुचीबीज, सहिजन के बीज, नीलीवृक्ष; प्रत्येक १ पल । यथाविधि पाक करें । इस घृत के पान तथा अभ्यंग से श्वित्र, कुष्ट, विसर्प, व्रण, विद्रधि उन्माद, अपस्मार, अर्श, शोष, उपदेश, शिरोरोग, वल्मीक, गुल्म, गलगण्ड, गलरोग,