________________
श्वित्रचिकित्सा। अधुना नीलघृतमाहशविन्याः काकमाच्याश्च वायस्याश्च तुलाः पृथक् । लोहचूर्णाढकार्द्धश्च त्र्याढका त्रिफला भवेत् ॥ २०८ ॥ अब्द्रोणद्वितये काथः शेषः षोडशभागिकः । सर्पिःप्रस्थं पचेत्तेन कर्षमात्रप्रयोजितैः ॥ २०९ ॥ व्योषवाकुचिकाव्याघ्रीदन्तीदारुकलिङ्गकैः । भृङ्गशम्याकवरुणैः पारावतपदीयुतैः ॥ २१० ॥ परं श्वित्रापहं चैतन्नीलं नाम घृतं शृतम् । कुष्ठानि हन्ति सर्वाणि कपालव्याधिनाशनम् ॥ २११ ॥
शङ्खिनी यवतिक्तकाभेदः किञ्चित्पृथुपत्रा। काकमाची प्रसिद्धा। वायसी काकमाचीभेदोऽवगुण्ठितगौरफला गौरभुंभुलय इति लोके । आसां प्रत्येकं तुला ग्राह्या। लोहचूर्णाढकार्द्धश्च प्रस्थद्वयमित्यर्थः । व्याढका त्रिफला भवेत् त्रिफलाया आढकत्रयम् । अन्द्रोणद्वितयं सलिलद्रोणद्वयं दत्त्वा क्वाथः कर्त्तव्यः। शेषः षोडशभागिकः प्रस्थद्वयशेषः । तेन क्वाथेन सर्पिः प्रस्थं पचेत् । कर्षमात्रप्रयोजितैः प्रयुक्तैोषादिभिः । व्योषं त्रिकटुकम् । व्याघ्री कण्टकारिका। कलिङ्गका इन्द्रयवाः । भृङ्गो भृङ्गराजः । शम्याकः किरिमालफलम् । पारावतपदी हंसपदीविशेषः ईषल्लोहिता। अन्ये काकजङ्घा ज्योतिष्मती चाहुः । इदं नीलं नाम घृतं परं श्वित्रापहमेतत् कुष्ठानि हन्ति । सर्वाण्यष्टादशभेदभिन्नानि । कपालव्याधयो दारुणकाकालपलिततिलकालकप्रभृतयः। तानाशयति हन्तीति । एतच्च नीलघृतं क्षारपाणिप्रोक्तं तीसटाचार्येण लिखितमिति २०८-२११॥
नीलवृत-गव्यघृत २ प्रस्थ । क्वाथार्थ-शंखिनी (यवतिक्ता भेद), १ तुला
१–भेले तु-“द्वौ प्रस्थौ लौहचूर्णस्य त्रिफला व्याढकं तथा । वायसीकाकमाचीभ्यां द्वे पले शंखिनी तुला ॥ त्रिद्रोणेऽपां विपक्तव्यं चतुर्भागावशेषितम् । घृतप्रस्थं पचेत्तेन गर्भ चैनं समावपेत् ॥ वरुणं वत्सकफलं त्र्यूषणं देवदारु च । अवल्गुजफलं दन्तीफलान्यारग्वधस्य च ॥ निदिग्धिका भृङ्गरजः पारावतपदी तथा । नीलकं नाम विख्यातमित्येतत् कुष्ठनुद् घृतम् ॥ श्वित्राणि रञ्जयेञ्चैव पानाभ्यंगे प्रयोजितम् । पामाविचर्चिकासिमकिटिमानि च नाशयेत् ॥” इति पाठो दृश्यते किञ्चिद्भेदेन । .....