SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ कुष्ठचिकित्सा। पाठापर्पटसारिवाद्वयनिशायुग्यष्टिकापद्मकैः सोशीरैः सपटोलचन्दनवचाशम्याकसप्तच्छदैः ॥ १९१॥ इत्येभिर्गदितै लाष्टगुणितं प्रस्थं पचेत्सर्पिषो गव्यस्यामलकीरसद्विगुणितं नाम्ना महातिक्तकम् । हन्त्येतद्गलगण्डमण्डलरुजः कण्डू सपाण्ड्वामयाः शोफश्लीपदवातरक्तविकृतीः कुष्ठानि चाष्टादश ॥ १९२ ।। एतद् घृतं महातितकं नाना । गव्यस्य सर्पिषः प्रस्थं पचेत् । एभिर्द्रव्यैर्भूनिम्बादिभिः कर्षप्रमाणैः । भूनिम्बादीनामितरतरद्वन्द्वः । भूनिम्बः किराततिक्तकः । अम्बुदं मुस्तम् । निम्बोऽरिष्टः । वत्सक इन्द्रयवः । कणा पिप्पली । गजपिप्पली जेजटेन व्याख्याता । त्रायन्ती त्रायमाणा । अनन्ता दुरालभा । अमृता गुडूची । तिक्ता कटुका । अभीरु शतावरी । विशाला इन्द्रवारुणी । सारिवाद्वयं सारिवोत्पलसारिवे। निशायुक् हरिद्रा दारुहरिद्रा । यष्टिका यष्टिमधु । शम्याकं आरोग्यशिम्बी । सप्तच्छदः सप्तपर्णः । शेषाणि प्रसिद्धानि । इति गदितै रुक्कैः सर्पिषः प्रस्थम् । कीडग्गुणविशिष्टम् ? जलाष्टगुणितम् । अष्टाभिर्गुणितं जलमष्टगुणितं यस्मिन् तत्तथा। आमलकीरसद्विगुणितं, आमलक्या रसः आमलकीरसः । रसशब्दो रसक्वाथेऽपि वर्त्तते यथा मांसरसेनेति । आमलकीरसो द्विगुणितो यस्मिन् तत्तथा । एतन्महातितकं गलगण्डादीन् निहन्ति । मण्डलरुजो मण्डलकुष्ठानि । ननु चाष्टादशकुष्ठग्रहणेनैव मण्डलकुष्ठं लभ्यत एव तकिमर्थ मण्डलकुष्ठग्रहणं क्रियते । विशेषेण तद्धन्तीति । एतचरकोक्तं महातितकं नाम घृतमिति ॥१९१-१९२॥ महातितकघृत-गव्यघृत २ प्रस्थ । आंवले का रस ४ प्रस्थ । जल १६ प्रस्थ । कल्कार्थ-चिरायता, मोथा, नीम की छाल, इन्द्रजौ, पिप्पली, खायमाण, दुरालभा, गिलोय, कटुकी, शतावर, हरड़, बहेड़ा, आंवला, अतीस, मूर्वामूल, इन्द्रायण, अडूसाछाल पाढ़, पित्तपापड़ा, अनन्तमूल झ्यामालता, हल्दी, दारहल्दी, मुलहठी, पद्माख, खस, पटोलपत, लालचन्दन, वचा, अमलतास, सतौने की छाल, प्रत्येक २ तोले । यथाविधि घृतपाक करें । यह घृत गलगण्ड, मण्डलकुष्ठ, कण्डू, पाण्डु, शोफ, श्लीपद, वातरक्त तथा अठारह कुष्ठों को नष्ट करता है। माता-आधा तोला ॥ १९९-१९२ ॥
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy