________________
१४४
चिकित्साकलिका |
अधुना तिक्तकं घृतमाहनिम्बत्वत्रिफलापटोलकटुकादुःस्पर्शदार्वीवृषाः त्रायन्ती च सपर्पटैर्द्विपलिकैरन्द्रोणमेभिः पचेत् । तेनान्देन्द्रयवैः किरातमगधात्रायन्तिकाचन्दनैः सिद्धं कुष्ठविघाति तिक्तकमिदं सर्पिर्विसर्पापहम् ॥ १९० ॥
इदं सर्पिस्तितकं नाम । निम्बादीनामितरेतरद्वन्द्वः । निम्बत्वक् निम्बछल्ली । दुःस्पर्शा दुरालभा । दार्वी दारुहरिद्रा । वृषो वासकः । त्रायन्तिका त्रायमाणा । शेषाणि प्रसिद्धानि । एभिर्द्रव्यैः सपर्पटैः पर्पटसहितैर्द्विपलिकैर्द्विपलप्रमाणैः । अब्द्रोणं सलिलद्रोणमेभिः सह पचेत् । पक्त्वा चतुर्थांशावशेषक्वाथेन अब्देन्द्रयवादीन र्द्धपलिकान् कल्कीकृत्य सर्पिःप्रस्थं सिद्धं तितकं नाम । कुष्ठविघाति कुष्ठापहारि । विसर्पापहं विसर्पमपहन्ति । एतच्च सुश्रतेोक्ततिक्तकक्वाध्यद्रव्येषु च दारुहरिद्रा या पठिता सा चरकाद्यभिप्रायात् यौगिकेति कृत्वा तीसटाचार्येणोक्ता । तथा च क्षारपाणिः:- यत्र दृष्टगुणं द्रव्यं संयोगे क्वापि नास्ति यत् । तस्माद् द्रव्यप्रमाणेन तत्कर्म विनियोजयेत् । इयं च संयोगे दृष्टा चेति ॥ १९० ॥
।
तिक्तकघृत—गव्यघृत २ प्रस्थ । क्वाथार्थ - नीम की छाल, त्रिफला, पटोलपत्र, कुटकी, दुरालभा, दारहल्दी, अडूसाछाल, लायमाण, पित्तपापड़ा; प्रत्येक २ पल । जल २ द्रोण । अवशिष्ट क्वाथ आधा द्रोण । कल्कार्थ - मोथा, इन्द्रजौ, चिरायता, पिप्पली, वायमाण, लालचन्दन; प्रत्येक आधा पल । यथाविधि घृतपाक करें । यह घृत कुष्ट तथा विसर्परोग को नष्ट करता है । मात्रा - आधा तोला ॥ १९० ॥ तितकानन्तरं महातिक्तकमाह
भूनिम्बाम्बुद निम्बवत्सककणात्रायन्त्यनन्तामृतातिक्ताभीरुफलत्रयं प्रतिविषामूर्वाविशाला वृषैः ।
१ - तन्त्रान्तरे तिक्त घृतोत्तेषु वाथ्यद्रव्येषु हरिद्रा त्वधिका पठ्यते । यथा त्रिफला द्विनिशेत्यादि । तथा च यतोऽत्र कंल्कद्रव्याणां परिमाणं नोक्तमतः प्रस्थद्वयसाध्यघृते कल्कस्तु स्नेहपादिक इति वचनात् मिलित्वा पलाष्टकं प्राथमिति केचित् । परं "घृतप्रस्थ पचेद् द्वयक्षैः पिप्पलीघनचन्दनैः । त्रायन्तीशक्रभूनिम्बैस्तत्पीतं तिक्त घृतम्” इति तन्त्रान्तरोक्तवचनबलात् कल्कद्रव्याणां प्रत्येकमर्द्धपलिकत्वमिति कामः ॥