________________
१४६
चिकित्साकलिका। अधुना वज्रकं घृतमाह
व्याघ्रीपटोलपिचुमन्दकरञ्जवासाछिन्नोद्भवाभिरिति सत्रिफलाभिराभिः । पक्कं हविर्हरति कुष्ठमिदं नराणा
मष्टादशात्मकमपि श्रुतवज्रकाख्यम् ॥ १९३ ॥ हविघृतं विपक्कं व्याघ्रयादिभिः कुष्ठं हरति । व्याघ्री कण्टकारिका। पटोलं पटोलपत्रम् । पिचुमन्दो निम्बः । करओ वृक्षकरञ्जः। वासा आटरूषकः । छिन्नोद्भवा गुडूची । आभिः सत्रिफलाभिः । एषाश्च द्रव्याणां कल्ककषायाभ्यां घृतं साध्यते । कथमेतदवसीयत इति चेत् तीसटेनोक्तत्वात् । इदं कुष्ठं हरति । अष्टादशात्मकमप्यष्टादशभेदम्। श्रुतवज्रकाख्यमिति श्रुता प्रख्याता वज्रकमित्याख्या संज्ञा यस्य तच्छुतवज्रकाख्यमिति ॥ १९३ ॥
वज्रकघृत-गव्यघृत २ प्रस्थ । क्वाथार्थ-छोटी कटेरी, पटोलपत्र, नीम की छाल, करजबीज, अडूसाछाल, गिलोय, त्रिफला, मिलित ४ प्रस्थ, जल ३२ प्रस्थ; अवशिष्ट क्वाथ ८ प्रस्थ । कल्कार्थ-सम्पूर्ण क्वाथ्य द्रव्य; मिलित ८ पल । यथाविधि पाक करें । यह घृत अठारहों कुष्ठ को नष्ट करता है। मात्रा-आधा तोला ॥ १९३ ॥
वज्रकानन्तरं महाखादिरं घृतमाहप्राक् क्वाथयेत्खदिरसरितुलाश्वतत्रस्तोयामणैरविकृतैः शुचिभिश्चतुर्भिः । काथे च तत्र च पचेद् घृतपात्रमभिः कल्कीकृतैरिति पिचुद्वितयप्रमाणैः ॥ १९४ ॥ त्रायन्तिकाकुटजबीजकरञ्जभूजभूनिम्बनिम्बधनपर्पटकाटरूपैः ।
१-चक्रदत्ते तु अस्मिन् योगे व्याघ्री न पठिता एवं च तत्परिवर्ते अशनकृष्णवेत्रयोरधिकः पाठः दृश्यते । यथा “वासागुडूचीत्रिफलापटोलं करञ्जनिम्बाशनकृष्णवेत्रम् । तत्काथकल्केन घृतं विपक्वं तद्ववत् कुष्ठहरं प्रदिष्टम् । विशीर्णकर्णाङ्गुलिहस्तपादः क्रिम्यदितो भिन्नगलोऽपि मत्यः । पौराणिकी कान्तिमवाप्य जीवेदव्याहतो वर्षशतञ्च कुष्ठी" इति ।