________________
१३६
चिकित्साकलिका |
तेषां पलद्वयम् । चतुःपलं स्नुक्पयसश्च दत्त्वा । स्नुक्ले हुण्डस्तस्य पयः क्षीरं तस्य चतुःपलमेतत्कल्कं दत्त्वा गव्यघृतस्य प्रस्थं द्वात्रिंशत्पलानि पचेत् वैद्यः । एतद्विन्दुघृतं विरेकात् विरेकेण गुल्मानपहन्तीति ॥ १७७॥
बिन्दुघृत—व्यघृत २ प्रस्थ । क्वाथार्थ - विधारामूल, निसोत, चित्रक; प्रत्येक ३ पल, हरड़ ५० पल, जल १ द्रोण ( १६ प्रस्थ), अवशिष्ट क्वाथ ४ प्रस्थ । कल्कार्थ— कमीला २ पल, नीलिनी बीज २ पल, सेहुण्ड का दूध ४ पल । यथाविधिं पाक करें इस घृत के प्रयोग से विरेचन होकर गुल्म नष्ट होता है ॥ मात्रा - रोगी को जितनी वार विरेचन कराना हो उतनी ही घृत की बूंदें दें ॥ १७६ - १७७ ॥
साम्प्रतं महाबिन्दुघृतमाहत्रिवृत्पलं स्नुपयसः पलं च कम्पिल्लकस्यापि पलं तृतीयम् ।
चतुःपलं चामलकीरसस्य शाणांर्द्धमन्यल्लवणस्य चैव ॥ १७८ ॥ प्रस्थार्द्धमेभिर्हविषो विपक्कं
जले महाबिन्दुघृतं प्रसिद्धम् । निहन्ति गुल्मं जठराणि चैव लहानमप्याशु विरेकयोगात् ।। १७९ ।।
महाबिन्दुघृतं गुल्मादीनिहन्ति । एभिस्त्रिवृतादिभिः । प्रस्थार्द्ध षोडशपलानि हविषा घृतस्य विपक्कं साधितम् । त्रिवृत्पलं त्रिवृतः पलं ग्राह्यम् । स्नुक्पयसः सेहुण्डक्षरस्य पलम् । काम्पिल्लकस्य रोचनिकायास्तृतीयं पलम् । चत्वारि पलानि आमलकीरसस्य स्वरतस्य । शाणार्द्धमन्यल्लवणस्य चैव । लवणं प्रधानकल्पनया सैन्धवं तस्य शाणार्द्धं द्विमाषिकं ग्राह्यम् । एभिः कल्कीकृतैः प्रस्थार्द्ध हविषो विपक्कम् | कस्मिन् ? जले सलिले घृतचतुर्गुणे । महाबिन्दुघृतं प्रसिद्धं प्रख्यातं
१ – अत्र तीसटाचार्येण लवणस्य शाणार्द्धं ग्राह्यमित्युक्तं परमन्यत्र पलार्द्ध सैन्धव
स्येत्युक्तम् ।
२– अन्यत्र प्रस्थार्द्धञ्चैव सर्पिषः तोयप्रस्थेन विपचेदिति पाठात् घृताद् द्विगुणमेव जलं गृह्यत इति केचित् ।