________________
१३४
चिकित्साकलिका। हिङ्ग्वादीनां समाहारद्वन्द्वः। अग्निश्चित्रकः । लवणत्रयं सैन्धवबिडसौवर्चलानि । वेतसाम्लं अम्लवेतसम् । क्षारद्वयं स्वर्जिकाक्षारयवक्षारौ। तिन्तिडीकं वृक्षाम्लम् । सह ग्रन्थिकेन वर्तत इति सग्रन्थिक, सग्रन्थिकं च तत् अग्निकं च सग्रन्थिकाग्निकम् । सग्रन्थिकाग्निकञ्च शठी च हपुषा च अजगन्धा च पाठा च अभया च ससितजीरकपुष्कराह्वञ्च सग्रन्थिकाग्निकशठीहपुषाजगन्धापाठाभयाससितजीरकपुष्कराहम् । समाहारो द्वन्द्वः । सह सितजीरकेण वर्तत इति ससितजीरकम् । ससितजीरकं च तत् पुष्कराह्वञ्च ससितजीरकपुष्कराह्वम् । ग्रन्थिकं पिप्पलीमूलम् । अग्निकं अजमोदा। शठी कर्चुरः । अजगन्धा वस्तगन्धा बोबइका इति लोके । शेषाणि प्रसिद्धानि । सोमं सवचम् । सधान्यं सधनीयकं पूर्वोक्तं द्रव्यकदम्बकम् । इत्येभिर्द्रव्यैः पूर्वोक्तः प्रविधाय कृत्वा चूर्ण प्लुतं भूयः वारम्वारम् । केन ? फलपूरं बीजपूरं तस्य फलं तस्मात् द्रवः स्वरसः तेन प्लुतं भावितम् । उष्णोदकादिपरिपीतं आदिग्रहणेन तक्रकाकिमस्तुमद्यदाडिमाम्बुप्रभृतीनि गृह्यन्ते। तथा च हारीतः-पिबन्मद्याम्लसुखोदकेनेत्यादि । तैः परिपीतं शूलानि हन्ति । गुल्मगुदजग्रहणीगदांश्च हन्तीति ॥ १७३-१७४॥
हिङ्ग्वाद्य चूर्ण-हींग, चित्रक, चव्य, सन्धानमक, बिडनमक, सौंचलनमक, अम्लवेतस, यवक्षार, सर्जिक्षार, सोंठ, कालीमिर्च, पिप्पली, अनारदाना, तिन्तिडीक (वृक्षाम्ल, विषांबिल), पिप्पलीमूल, अजमोदा, कचूर, हाऊबेर, अजगन्धा (अजमोदा भेद), पाढ़, हरड़, श्वेतजीरा, पुष्करमूल, वच, धनिया; इनके चूर्ण को एकत्र समपरिमाण में मिश्रित कर बिजौरे के रस से बारम्बार भावना दें। जब चूर्ण का स्वाद कुछ खट्टा होजाय तब भावना बन्द कर दें। मात्रा-१ मासा । अनुपानगरमजल, तक्र, कांजी, मस्तु, मद्य अथवा अनार का रस। इस चूर्ण के सेवन से शूल, गुल्म, अर्श तथा संग्रहणी प्रभृति रोग नष्ट होते हैं। यदि अजगन्धा न हो तो यवानी (अजवाइन ) का प्रयोग कर सकते हैं । १७३-१७४ ॥
ततोऽनन्तरमेभिरेव द्रव्यैः साधितं घृतमाह
हिङ्ग्वादिभिर्विरहितैर्वचयाविपक्क- . मेतद् घृतं दधिचतुर्गुणमेभिरेव । स्यादीजपूरकरसेन चतुर्गुणेन गुल्मापहं गुदगदग्रहणीगदनम् ॥ १७५ ॥