________________
चिकित्साकलिका। तदनन्तरं रोहीतकघृतमाह
रोहीतकत्वक्तुलया समेतं द्विसङ्गणं स्याद्धदराढकन्तु । पचेदपां द्रोणचतुष्टयेन द्रोणावशेषेण घृताढकं तु ॥ १७० ॥ स्यात्पश्चकोलात्पलपञ्चकेन रोहीतकत्वक्समभागिकेन । सिद्धं तु रोहीतकसर्पिरेत
प्लीहोदरघ्नं यकृतामयनम् ॥ १७१ ॥ रोहीतकत्वक्तुलया समेतमिति-रोहीतकस्य त्वक् रोहीतकत्वक् तस्य तुला पलशतं तया समेतम् । किं तद्वदराढकम् । किं विशिष्टम् ? द्विसङ्गुणं द्विगुणम् । तदध्यष्टाविंशच्छतपलयुतं अपां द्रोणचतुष्टयेन पचेत् । द्रोणावशेषेण घृताढकं तु द्रोणावशेषेण काथेन घृताढकमष्टाविशं शतं पलं पचेत् । स्यात्पञ्चकोलात्पलपञ्चकेन-पञ्चकोलपलपश्चकेन सह रोहीतकत्वक् समभागिकेन । रोहीतकत्वक् समभागा यस्मिन् तद्रोहीतकत्वक्समभागिकम् । एतदुक्तं भवति-पञ्चकोलस्य पञ्चपलानि रोहीतकत्वचोऽपि पञ्चपलानि । कल्कीकृतं साधयत् । सिद्धं तु रोहीतकसर्पिः एतत् स्याद्भवेत् । प्लीहोदरमपहन्तीति प्लीहोदरनम् । यकृदामयो यकृदुदरं तं हन्तीति यकृदामयघ्नम् ॥ १७०-१७१ ॥
रोहीतकवृत-गव्यघृत ८ प्रस्थ । काथार्थ-रोहेड़े की छाल १ तुला (१० सेर), बदर (बेर) ४ आढक (१६ प्रस्थ), जल ८ द्रोण । अवशिष्ट क्वाथ २ द्रोण । कल्कार्थ-पञ्चकोल (पिप्पली, पिप्पलीमूल, चन्य, चित्रक, सोंठ) मिलित ५ पल, रोहेड़े की छाल ५ पल । यथाविधि पाककर सेवन करने से प्लीहोदर एवं यकृदुदर रोग नष्ट होता है । मात्रा-आधा तोला ॥ १७०-१७१ ॥ इदमपरमुदादिप्रत्यनीकं घृतमाह
द्विपञ्चमूलीजलमस्तुसिद्धं सपश्चकोलं च सयावशूकम् ।