________________
१२२
चिकित्साकलिका। तालीसज्वलनोषणाः सचविकास्तुल्या इति-तालीसंतालीसपत्रम् । ज्वलनश्चित्रकः । ऊषणानि मरिचानि । सचविकाः चविका युक्तास्तुल्याः प्रत्येकं पलिकाः । द्विभागा भवेत् कृष्णा मूलसमन्विता पिप्पलीमूलसमन्विता । मूलेन सहिता द्विभागा भवेदेतदुक्तं भवतिपिप्पली पिप्पलीमूलयोढ़े द्वे पले । त्रिपलिका शुण्ठी त्रिपलप्रमाणा । चतुर्जातकमेलापत्रत्वङ्नागकेसराणि । स्यात् भवेत् । मुष्टिप्रमितं पलप्रमाणम् । गुडद्विगुणितैरेभिः पूर्वोक्तैः सर्वैर्गुडो द्विगुणितो येषां तानि तथा तैः कृताः संस्कृता मोदकाः कासादीनपघ्नन्तीति ॥ १५४ ॥
इति अर्शश्चिकित्सा समाप्ता। प्राणदमोदक-तालीसपत्र, चित्रकमूल, कालीमिर्च, चन्य; प्रत्येक १ पल, पिप्पली २ पल, पिप्पलीमूल २ पल, सोंठ ३ पल चतुर्जात ( छोटी इलायची, दारचीनी, तेजपत्र, नागकेसर); प्रत्येक १ पल । सम्पूर्ण चूर्ण से तिगुना गुड । यथाविधि पाक कर मोदक बनावें । मात्रा-आधे तोले से २ तोले तक । इसके सेवन से कास, श्वास, मन्दाग्नि, अर्श, प्लीहा (तिल्ली) तथा प्रमेह प्रभृति रोग नष्ट होते हैं ॥ १५४॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां ।
मर्शश्चिकित्सा समाप्ता।
शा
अथ भगन्दरचिकित्सा । अश्चिकित्सानन्तरं यथोद्देशं भगन्दरचिकित्सामाह
वातेन पित्तेन कफेन सर्वैः क्षतेन च स्युर्मुदसनिकृष्टाः । भगन्दराख्याः पिटिकाः प्रपक्का
बहुव्रणाः कष्टतमाः प्रदिष्टाः ॥ १५५ ॥ भगन्दराख्याः पिटिका भवेयुः। वातपित्तकफैः प्रत्येकं सर्वै स्त्रिभिरपि क्षतेन च व्रणेन । गुदसन्निकृष्टा गुदाम्यासे अङ्गुले ह्यङ्गले