________________
अर्शश्चिकित्सा ।
नो गुल्मग्रहणी गुदोदररुजः कोष्ठे न शूलानि च श्वासश्लीपदशोफविद्रधियकृद्ग्रन्थ्यर्बुदादीनि च ॥ १५३॥
१२१
भागाः षोडशवृद्धदार सहितात्कन्दात्कृतात्कर्कशादिति कन्दात् सूरणात् । कर्कशात् रूढात् । षोडशभागाः स्युर्भवेयुः । वृद्धदारो वृद्धदारकस्तेनसहितात्कन्दात् तथैव षोडश वृद्धदारकस्य भागाः प्रत्येकं ददाति । अष्टौ चित्रकमूलतश्च तुलिताः स्युः । तालमूलीयुतादिति । तालमूली मूषली मूशलकन्दः । चकारात्तालमूल्याश्चाष्टौ भागाः । चित्रकमूलतश्चित्रकमूलादष्ौ भागाः स्युः । तालीस त्रिफलाविडङ्गमगधाविश्वोपकुल्याजटाभल्लातैश्चेति-तालीसादीनामितरेतरद्वन्द्वसमासः । तालीसं तालीसपत्रम् । त्रिफला हरीतक्यामलकविभीतकानि । विडङ्गं कृमिशत्रुः । मगधा पिप्पली | विश्वं शुण्ठी । उपकुल्याजटा पिप्पलीमूलम् । भल्लातं भल्लातकास्थीनि । इत्येभिः प्रत्येकं चतुः पलैर्द्विपलिकैश्चैलावराङ्गोषणैरिति- एला त्रुटिः । वराङ्गं त्वक् । ऊषणं मरिचम् । एभिरेलादिभिः प्रत्येकं द्विपलिकैरित्येभिः सकलैः समस्तैः कन्दादिभिः गुडद्विगुणितैरिति गुडो द्विगुणितो येषां कन्दादीनां तानि तैरेतदुक्तं भवति — सर्वेषां द्विगुणो गुडः । भिषग्वैद्यो मोदकान् कुर्यात् । यमादैकैर्भक्षितैर्नृणां गुदजादयो न भवन्ति ॥ १५२ -१५३॥
सूरणमोदक - ज़मीकन्द (सूरण) १६ पल, विधारा बीज १६ पल, चित्रकमूल ८ पल, मूसली ८ पल, तालीशपत्र, त्रिफला, वायविडंग, पिप्पली, सोंठ, पिप्पलीमूल, शुद्ध भिलावे; प्रत्येक ४ पल, छोटी इलायची, दारचीनी, कालीमिर्च प्रत्येक २ पल । इन्हें एकत्र मिश्रित करके समस्त चूर्ण से द्विगुण गुड द्वारा यथाविधि पाक कर मोदक बनालें । मात्रा - आधे तोले से एक तोले तक । इस मोदक के सेवन से अर्श, प्लीहारोग (तिल्ली), पाण्डु, गुल्म, ग्रहणी, गुदारोग, कोहज शूल, श्वास, श्लीपद, शोफ, विद्रधि, कृद्रोग, ग्रन्थि तथा अर्बुद आदि रोग नष्ट होते हैं ॥ १५२ – १५३ ॥
प्रागुकं प्राणदैः शाम्यन्तीति प्राणदमोदकानाहतालीसज्वलनोषणाः सचविकास्तुल्या द्विभागा भवेत् कृष्णा मूलसमन्वितास्त्रिपलिका शुण्ठी चतुर्जातकम् । स्यान्मुष्टिप्रमितं गुडत्रिगुणितैरेभिः कृता मोदकाः कासश्वासगदाग्निमान्द्यगुदजीह प्रमेहापहाः ।। १५४ ॥