________________
१२०
चिकित्साकलिका |
कृष्णा पिप्पली तस्या एकं पलम् । तदुद्भवजटा तच्छब्देन कृष्णायाः परामर्शः तेन पिप्पलीमूलस्य द्वे पले । चविका चव्या तस्याः त्रीणि पलानि । अग्निश्चित्रकस्तस्य चत्वारि पलानि । शुण्ठ्याः पञ्चपलानि । एतैः अरुष्करपलाष्टकसंयुतैः स्यात् । एतैः पूर्वोकैर्द्रव्यैः अरुष्करं भल्लातकं तस्य पलाष्टकं अष्टौ पलानि तैः संयुतैः सयुक्तैः स्यात् भवेत् । कन्दस्त्वरुष्करपलात् द्विगुणः प्रकल्प्यः । भल्लातकात् द्विगुणः सूरणः षोडशपलानि प्रकल्प्यः कल्पनीयः । यावशूकं कुडवार्द्ध स्यात् भवेत् । यावशूको यवक्षारः तस्य कुडवार्द्ध द्वे पले । अतः अस्मात् पूर्वोक्तात् समस्तात् योज्यो योजनीयो गुडो द्विगुणितो द्विगुणीकृतः षण्णवतिपलानि भवन्ति । अवटको वटकः क्रियते स्म इति वटकीकृतः । काङ्कायनेन मुनिना वटकः किलायमुक्तः किलैवं विश्रयते । काङ्कायनो नाम मुनिः मुमुक्षुः तेनायं वटकः प्रोक्तो भाषितः प्रजाहिततमेन । गुदामयनः गुदामयोऽशविकारस्तं हन्तीति गुदामयघ्नः । ये गुदामयाः क्षाराग्निशस्त्रपतनैर्न सिद्धाः न सिद्धिं गताः ते सर्वे अनेन वटकेन गुदामयाः सिध्यन्तीत्येवमुक्तमिति ॥ १४९ - १५१ ॥
काङ्कायनवटक — हरड़ ५ पल, कालीमिर्च १ पल, जीरा १ पल, पिप्पली १ पल, पिप्पलीमूल २ पल, चव्य ३ पल, चित्रक ४ पल, सोंठ ५ पल, शुद्ध भिलावे ८ पल, सूरण (ज़मींकन्द) १६ पल, यवक्षार २ पल । समस्त चूर्ण से दुगुना गुड़ । यथाविधि पा कर वटक बनावें । मात्रा - आधा तोला । जो अर्श क्षार, अग्नि तथा शस्त्रकर्म द्वारा भी नष्ट नहीं होते वे भी इस वटक के सेवन से शान्त होजाते हैं । प्रजा के कल्याण की कामना करते हुए काङ्कायन मुनि ने यतः इन वटकों का अपने शिष्यों को उपदेश दिया था अत एव इसका नाम काकायनवटक है ॥ १४९ - १५१ ॥ पूर्वमुक्तमथ सूरणाद्यैः शम्यन्तीत्यथ सूरण मोदकानाहभागाः षोडशवृद्धदारसहितात् कन्दात् कृतात्कर्कशात् अष्टौ चित्रकमूलतश्च तुलिताः स्युस्तालमूलीयुतात् । तालीसत्रिफलाविडङ्गमगधाविश्वोपकुल्याजटाभल्लातैश्च चतुःपलैर्द्विपलिकैरेलावराङ्गोषणैः ।। १५२ ।। इत्याभिः सकलैर्गुडद्विगुणितैः कुर्याद् भिषङ् मोदकान् तैर्भुक्तैश्च नृणां न सन्ति गुदजा न प्लीहपाण्डामयाः ।