________________
अर्शश्चिकित्सा। भल्लातकैरथ तिलैरसितैः प्रयुक्तः
प्राग्भोजनादिति न सन्ति कृतैरुपायैः ॥ १४८ ॥ तक्रेण वा मथितेन मगधजादिभिः पिप्पल्यादिगणोक्तैश्चूर्णीकृतैः। अन्वितेन संयुक्तेन । कफकृताः श्लेष्मजाः गुदामया अर्थीविकारा न स्युन भवेयुः । भल्लातकैश्च प्रयुक्तैः प्रयोजितैः स्वविधानेन । अथवा तिलैः असितैः कृष्णैः। प्राक्भोजनात्प्रयुक्तैरितिपूर्वोक्तैरुपायैः कृतैर्न सन्ति न भवन्ति अर्कोविकारा इति ॥ १४८ ॥
पिप्पल्यादिगण की औषधों के चूर्ण से युक्त छाछ के पीने से कफज अर्श नष्ट होते हैं। इसीप्रकार भोजन से पूर्व यथाविधि भल्लातक (भिलावे) अथवा काले तिलों के प्रयोग से अर्श पैदा नहीं होते ॥ १४८ ॥ काङ्कायनोक्तवटकैःशाम्यन्तीत्युक्तमतः काङ्कायनोक्तं वटकमाह
पथ्याफलस्य गुरुणः पलपञ्चकं स्यादेकं पलञ्च मरिचादपि जीरकाच्च । कृष्णा तदुद्भवजटा चविकाग्निशुण्ठ्यः कृष्णादिपश्चकमिदं पलतः प्रवृद्धम् ।। १४९ ।। एतैररुष्करपलाष्टकसंयुतैश्च कन्दस्त्वरुष्करपलात् द्विगुणः प्रकल्प्यः । स्याद्यावशूककुडवार्द्धमतः समस्तात् योज्यो गुडो द्विगुणितो वटकीकृतश्च ।। १५० ।। काङ्कायनेन मुनिना वटकः किलायमुक्तः प्रजाहिततमेन गुदामयन्नः । क्षाराग्निशस्त्रपतनैरपि ये न सिद्धाः
सिध्यन्त्यनेन वटकेन गुदामयास्ते ॥ १५१ ॥ पथ्याफलस्य गुरुणः पलपञ्चकं स्यादिति-पथ्या हरीतकी, तस्या गुरुणोः फलस्य पलपञ्चकं स्याद्भवेत् । एकं पलं मरिचादपि जीरकाच्च मरिचादेकं पलं जीरकाचैकं पलम्। कृष्णा तदुद्भवजटाचविकाग्निशुण्ठ्यः इदं कृष्णादिपञ्चकंपलतः पलादारभ्य उत्तरोत्तरं प्रवृद्धम्। एतदुक्तं भवति