________________
भगन्दरचिकित्सा।
१२३ वा । यदा च प्रपक्का बहुव्रणाश्च भवन्ति तदा कष्टतमा अतिशयेन कष्टाः प्रदिष्टा उपदिष्टा इति। अभिन्नाः पिटिकाः, भिन्नाः भगन्दराः। तथा च सुश्रुतः- "अभिन्नाः पिटिकाः ज्ञेया भिन्नाश्चापि भगन्दराः। घोराः साधयितुं दुःखाः सर्व एव भगन्दराः ॥ तेष्वसाध्यस्त्रिदोषोत्यः क्षतजश्च विशेषत इति" ॥ १५५ ॥
वात, पित्त, कफ, सन्निपात एवं क्षत से गुदा के चारों ओर दो अंगुल के भीतर २ जो पिडका पक्क होकर नाडीव्रण का रूप धारण करले उसे भगन्दरपिडका कहते हैं। सम्पूर्ण भगन्दर कष्टसाध्य होते हैं ॥ १५५ ॥ . वातपित्तकफसन्निपातक्षतनिमित्तभगन्दराख्यापिडकोक्ता साम्प्रतं तस्याः यथासंख्येन शतपोनकादिप्रकारमाह
तस्याः प्रकाराः शतपोनकोष्ट्रग्रीवापरिस्राविकृताः क्रमेण ।
शम्बूकिकोन्मार्गगता भिषग्भि. स्तथा चिकित्स्या न यथैति पाकम् ॥१५६॥
तस्याः भगन्दरपिडकायाः शतपोनकादयः प्रकारा भेदाः क्रमेण यथासंख्येन भवन्ति । एतदुक्तं भवति-घातेन शतपोनकः । शतपोनकश्चल्लाणका। यथा बहुच्छिद्रा चल्लणिका तथा सोऽपि बहुच्छिद्रो घणो भवति । पित्तेन उष्ट्रग्रीवस्तदाकृतिः । श्लेष्मण परिस्रावि अजस्त्रं पिच्छिलस्रावि । शम्बूकिकावर्त्तस्त्रिदोषजः। उन्मार्गी क्षतनिमित्तः । एवमनेकप्रकारा सा पिडका । भिषभियैस्तथा सा पिटिका चिकित्स्या यथा न पाकमेति गच्छति ॥ १५६ ॥
शतपोनक, उष्ट्रग्रीव, परिस्रावी, शम्बूकावर्त तथा उन्मार्गी नामक भगन्दर क्रमशः वात, पित्त, कफ, सन्निपात तथा क्षत से उत्पन्न होते हैं । इसमें चिकित्सा द्वारा पिडकाओं को पक्व होने से बचाना चाहिये ॥ १५६ ॥ इदानीं तस्याश्चिकित्सितमाह
हिता जलौकोभिरसृग्विशुद्धिः प्राक् पाकतः स्यादचिरोद्गतायाः।
.