________________
अशश्चिकित्सा |
११७
इत्येतत् आध्मानादिलक्षणं चिह्न सामान्यं साधारणं सर्वेषां अर्शसां स्यात् भवेत् । आध्मानं जठरस्य । सक्थिसदनमिति सक्थिः गुल्फविटपान्तम् । सदनमवसादः । अनलमान्द्यमग्निमान्द्यम् । गले दाहः कण्ठदहनम् । मुखप्रसेकः मुखे श्लेष्मक्षरणम् । गुल्मादयः प्रसिद्धाः । आध्मानादीनामितरेतरद्वन्द्वसमास इति ॥ १४४ ॥
अर्श रोग में सामान्यतः आध्मान, सक्थिसदन ( टांग की शिथिलता ), अग्निमान्य, गुल्म, प्लीहोदर, शोथ, पाण्डु, गुदा में वेदना, श्वास, कास, गलदाह (गले में जलन ) तथा मुखप्रसेक ( मुख में इलेप्मा का स्राव ) आदि लक्षण दिखाई देते हैं ॥ १४४ ॥
इदानीमर्शसां लक्षणानन्तरं चिकित्साभेदमाहतत्रार्शसामुपदिशन्ति चतुःप्रकारमारोग्यमेकमगदैरपरं च शस्त्रैः । क्षारेण चान्यदनलेन चतुर्थमित्थमित्यागमैककृतिनः किल सुश्रुताद्याः ।। १४५ ।।
तत्रैवं स्थिते अर्शसां किल चतुःप्रकारं चतुर्भिः प्रकारैः सुश्रु ताद्या आरोग्यमुपदिशन्ति । तदेव चातुर्विध्यमाह एकं तावद्गदैरौषधैः । अपरं द्वितीयं शस्त्रैः शस्त्रकर्मभिः । अन्यत् तृतीयं क्षारेण क्षारकर्मणा । अन्यच्चतुर्थमनलेनाग्निकर्मणेति । इत्थमनेन प्रकारेण चतुःप्रकारमा - रोग्यसाधनमिति । सुश्रुताद्याः सुधत आदौ येषां औपधेनवौरभ्रपुष्कलावतादीनां शल्यतन्त्रविदां ते तथा । आगमैककृतिनः आगमे वैद्यकशास्त्रे त एव एककृतिनः पण्डिता इति ॥ १४५ ॥
अर्श की चिकित्सा-(१) औषध; (२) शस्त्र; (३) क्षार, तथा (४) अग्नि द्वारा चार प्रकार से की जाती है ऐसा सुश्रुत आदि प्राचीन आचार्यों ने कहा है ॥ १४५ ॥ इदानीं तस्यारोग्यचतुष्टयस्य अवस्थाभेदेन साधनभेदमाह - स्यादौषधैरचिरजेषु चिरोद्गतेषु
क्षारेण च क्षतजपित्तसमुद्भवेषु ।
स्थूलेषु वातकफजेष्वनलेन शस्त्रैः
सत्त्वाधिकस्य बलिनश्च सतश्चिकित्सा ।। १४६ ॥