________________
ग्रहणीचिकित्सा। गुल्माग्निसादगुदजग्रहणीविकारे पाण्डामयश्वयथुरुग्विषमज्वराणाम् । शस्तः कफोदरकिलासभगन्दराणा
मेषामरुष्करगुडः क्रिमिरोगिणाश्च ॥ १४२ ॥ एषां गुल्माग्निसादादीनां अरुष्करगुडः प्रशस्तः। तस्य चेदं पाकविधानम्-द्रोणाम्भसा सह सहस्रमरुष्कराणामुत्त्वाथ्थ। अरुष्कराणां भल्लातकानां सहस्रमुत्क्वाथ्य क्वाथं कृत्वा । केन? द्रोणाम्भसा सह । द्रोणमितमम्भः द्रोणाम्भः । शाकपार्थिवादित्वात् मध्यपदलोपीसमासः। तेन । तत्र च जले क्वाथे चरणप्रमाणे पादप्रमाणे गुडस्य तुलाममूनि च द्रव्याणि दन्त्यादीनि द्विपलिकानि विचूर्णितानि चूर्णीकृतानि दत्त्वा पुनर्विपचेत् । दन्तीत्रिवृत्करिकणाचविकाजमोदापाठाग्निपिप्पलिजटात्रिकटूनि । करिकणा हस्तिपिप्पली । शेषाणि प्रसिद्धानि । तावद्विपचेद्यावल्लेहो भवति । तस्मिन् लेहे शीते तं पलप्रमाणं चूर्णमत्र लेहे निधाय निक्षिप्य । केषां ? एलावराङ्गदलकुञ्जरकेसराणाम् । एला त्रुटिः। वराङ्गं त्वक् । दलं पत्रकम् । कुञ्जरकेसरं नागकेसरम् । गुल्मादीनामितरेतरद्वन्द्वः । तेषां कफोदरादीनां च कृमिरोगिणां च । अरुष्करगुडो भल्लातकगुडः । एषां सर्वेषां वातश्लेष्मसमुद्भवानां शस्तः प्रशस्त इति । ननु च सामान्येनोक्तत्वाद्गुल्मादीनां कस्मादेवं विशेषोऽवधार्यत इति? उच्यतेअत्यग्निगुणभूयिष्टत्वात् वातश्लेष्महरत्वाच्च भल्लातकगुडस्यादरः प्रतीतः। तथा च हारीतः- "गुडं गुल्महरं श्रेष्ठं ग्रहण्यर्थीनिवर्त्तनम् । तीक्ष्णमग्निसमं वीर्ये वैद्याः प्राहुररुष्करम्” ॥ १४०-१४२॥
. इति ग्रहणीचिकित्सा। __ भल्लातकगुड-शुद्ध भल्लातक १००० (संख्या से)। क्वाथार्थ जल २ द्रोण । अवशिष्ट क्वाथ आधा द्रोण (८ प्रस्थ)। इस क्वाथ को छानकर इसमें १ तुला (१० सेर) गुड़ घोलकर पकावें । जब गाढा होजाय तब दन्तीमूल, निसोत, गजपिप्पली, चन्य, अजमोदा, पाढ, चित्रक, पिप्पलीमूल, त्रिकटुः प्रत्येक के २ पल चूर्ण का प्रक्षेप दें और अच्छीप्रकार मिला नीचे उतार लें। शीतल होने पर छोटी इलायची, दारचो । तेजपत्र, नागकेसर; प्रत्येक का १ पल चूर्ण मिलादें । मात्रा-आधा तोला । यह गुल्म,