________________
११०
चिकित्साकलिका |
कृतेन । इत्युक्तया कल्पनया अनन्तरोक्तया । तित्तिरिं लुञ्चितनिकृष्टान्त्रपुरीषतुण्डोरस्कं तस्योदरं न्यग्रोधादिकल्केन सम्पूर्य काश्मरीपत्रैः परिवेष्टध तं मृदावलिप्य खदिराङ्गारैरुत्स्वेदयेत् । तस्माद् गालिताद्रसः पुटपाकजः शीतः । सशर्करः शर्करायुक्तः । क्षौद्रयुतश्च क्षौद्रं मधु तेन युक्तः । अतीसारजिद्भवतीति ।
इति अतीसारचिकित्सा समाप्ता ।
एक तीतर को मारकर पंख उखाड़, आंत, पुरीष, चोंच आदि को निकाल पेट में वट आदि पञ्चवल्कल का कल्क भरलें । पश्चात् गाम्भारी के पत्तों से लपेट पूर्ववत् मट्टी का लेप कर खैर के अंगारों पर उत्स्वेदन करें। मट्टी का रंग लाल होते ही बाहिर निकाल निष्पीडन कर रस निकाल लें। शीतल होने पर खांड तथा शहद मिला रोगी को पिलाने से अतीसार नष्ट होता है ॥ १३२ ॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां
परिमलाख्यायां चिकित्साकलिकाव्याख्यायां अतीसारचिकित्सा समाप्ता ।
०
अथ ग्रहणीचिकित्सा । अतीसारचिकित्सानन्तरं यथोद्देशं ग्रहणीचिकित्सामाहविश्वादिभिः सरुजि पाचनमत्र शस्तं मुस्तादिभिर्भवति संग्रहणं ततश्च । स्याद्दीपनं तदनु च ग्रहणीविकारे कल्याणकादिभिरिति ग्रहणीचिकित्सा | १३३ ॥
अथ ग्रहणीरोगे सरुजि सशूले विश्वादिभिः पाचनमादौ शस्तम् । विश्वादयो विश्वाभयाघनवचातिविषेत्येवमादयोऽतिसारोक्ताः । ततश्च पाचनानन्तरं मुस्तादिभिः सङ्ग्रहणं भवति । मुस्तादयो मुस्तमोचरसरोधधातकीत्यादयः । तदनु सङ्ग्रहणानन्तरं ग्रहणीविकारे कल्याणकादिभिर्दीपनं स्यात् भवेत् । कल्याणकादयः कल्याणकगुड-भल्लातकगुडपिप्पल्यादिगण- वार्त्ता कगुटिका-चित्रक गुटिकेत्येवमादयः । इतिशब्दः परिसमाप्तौ । एतावत्येव ग्रहणीचिकित्सा । तथा च सुश्रुताचार्य: