________________
१०९
अतीसारचिकित्सा। इदानीमवेदनस्यातिपक्वस्य दीप्तानविरूक्षितस्य नानावर्णस्यातिसारस्य पुटपाकमाह
श्रीपर्णिपर्णावृतदीर्घवृन्तजत्वपिण्डकात्तण्डुलवारिकल्कितात् । मृद्वेष्टितादग्निविपाचिताद्रसं
पिबेदतीसारहरं समाक्षिकम् ॥ १३१ ॥ श्रीपर्णिपर्णावृतदीर्घवृन्तजत्वपिण्डकादग्निविपाचितात् रसं समाक्षिकं पिबेत् अतीसारहरम् । श्रीपर्णी काश्मरी तस्याः पर्णानि तैरावृतं वेष्टितम् । दीर्घवृन्तमरलुकम् । तस्माज्जातः दीर्घवृन्तजः । स चासौ त्वपिण्डकश्च दीर्घवृन्तजत्वपिण्डकः । श्रीपर्णिपर्णावृतश्चासौ दीर्घवृन्तजत्वपिण्डकश्च श्रीपर्णिपर्णावृतदीर्घवृन्तजत्वपिण्डकः । तस्माद्रसं पिबेत् । किं विशिष्टात् ? तण्डुलवारिकल्कितात् तण्डुलधावनपिष्टात् । मृद्वेष्टितात् मृदालिप्तात् बाह्यतः । अग्निविपाचितात्। इत्यत्राग्निग्रहणं कालादिपाकनिवृत्त्यर्थम् । इत्थम्भूतात् त्वपिण्डकात् यो रसस्तं सुशोतं, समाक्षिकं मधुसंयुक्तं पिबेत् । अतीसारहरमिति । तथा च सुश्रुताचार्यः-अवेदनं सुसम्पक्वं दीप्ताग्नेः सुचिरोत्थितम् । नानावर्णमतीसारं पुटपाकैरुपाचरेत् । त्वपिण्डकं दीर्घवृन्तस्येत्यादि ॥ १३१॥
अरलू की छाल को तण्डुलोदक से पीस पिण्डाकार करके गाम्भारी के पत्तों से लपेट दें। पश्चात् अंगूठे के बराबर मोटी मट्टी का लेप करके अग्नि में पाक करें। जब मट्टी का रंग लाल होजाय उसी समय बाहिर निकाल निष्पीडन करके रस निकाल लें । शीतल होने पर मधु मिलाकर पीने से अतीसार नष्ट होता है ॥ १३१ ॥ द्वितीयं पुटपाकयोगमाह
इत्युक्तया कल्पनया वटादिना कल्कीकृतेनोदरगेण तित्तिरेः । प्रकल्पितः स्यात्पुटपाकजो रसः
सशर्करः क्षौद्रयुतोऽतिसारजित् ।। १३२ ॥ तित्तिरेः उदरगेण वटादिना न्यग्रोधोदुम्बराश्वत्थेत्यादिना कल्की