________________
ग्रहणीचिकित्सा। ततः पाचनसंग्राहिदीपनीयं गणत्रयम् । पिबेत्प्रातः सुरारिष्टनेहमूत्रतुषाम्बुभिरिति ॥ १३३॥
शूलयुक्त ग्रहणीरोग में प्रथमतः अतिसारोक्त विश्वादिक्वाथ प्रभृति योगों द्वारा पाचन तदनन्तर गंगाधरचूर्ण प्रभृति योगों द्वारा संग्रहण और अन्त में कल्याणकगुड प्रभृति योगों द्वारा अग्नि-दीपन करना चाहिये। प्रधानतः क्रमशः पाचन, संग्रहण तथा जाठराग्निदीपन करना ही ग्रहणी की चिकित्सा है ॥ १३३ ॥ इदानीं भूनिम्बादिचूर्णमाह
भूनिम्बकौटजकटुत्रिकमुस्ततिक्ताः कर्षांशकाः सशिखिमूलपिचुद्वयाः स्युः । त्वक् कोटजी पलचतुष्कमिता गुडाम्भः
पीतं नृणामिह हरेद् ग्रहणीविकारान् ॥ १३४ ॥ इह भूनिम्बादीनां चूर्ण गुडाम्भःपीतं नृणां ग्रहणीविकारं हन्ति । भूनिम्बकौटजकटुत्रिकमुस्ततिक्ताः कर्षाशकाः। कर्षांशो येषां भूनिम्बादीनां ते कर्षांशकाः प्रत्येकं कर्षमानाः । भूनिम्बः किराततिक्तकम् । कौटजा इन्द्रयवाः । कटुत्रिकं शुण्ठीमरिचपिप्पल्यः । मुस्तं अब्दम् । तिक्ता कटुका । सशिखिमूलपिचुद्वयाः । शिखी चित्रकः, तस्य मूलं शिखिमूलं, तस्य पिचुद्वयं कर्षद्वयं, शिखिमूलपिचुद्वयम् । सह तेन वर्त्तन्ते येते तथा स्युर्भवेयुः। त्वक् कौटजी पलचतुष्कमिता । कुटजस्येयं कौटजी त्वक् । पलचतुष्कमिता चतुःपलप्रमाणेत्यर्थः । एषां चूर्ण कर्षम् । गुडकर्षसंयुक्तैः शृतशीताम्बुपलैश्चतुर्भिः पीतं नृणां प्राणिनाम् । इह ग्रहणीविकारान् हरेदिति ॥ १३४ ॥
___ भूनिम्बादिचूर्ण-चिरायता, इन्द्रजौ, कालीमिर्च, पिप्पली, सोंठ, मोथा, कुटकी, प्रत्येक २ तोले, चित्रकमूल ४ तोले, कुड़े की छाल ४ पल (३२ तोले)। प्रत्येक के चूर्ण को उपर्युक्त परिमाण में मिश्रित करें । मात्रा-१ मासे से ३ मासे तक । औषध के समान गुड़ को सोलहगुना जल में घोल कर इस अनुपान से रोगी को सेवन करावें ॥ १३४॥ साम्प्रतं ग्रन्थिकाद्यं चूर्णमाह
सग्रन्थिकं त्रिकटुकं लवणत्रयश्च क्षारद्वयं सचविकं च सचित्रकश्च ।