________________
अतीसारचिकित्सा।
१०५ साम्प्रतं पेयादिपथ्यानन्तरं आमातिसारशमनान् योगान् प्राह
विश्वाभयाघनवचातिविषामराह्वकाथोऽथ विश्वजलदातिविषाशृतो वा । आमातिसारशमनः कथितः कषायः
शुण्ठीघनप्रतिविषामृतवल्लिजो वा ॥ १२४ ॥ विश्वादिभिः कृतः क्वाथः आमातिसारशमनः कथितः । विश्व शुण्ठी । अभया हरीतकी । घनं मुस्तम् । वचातिविषे प्रसिद्ध । अमराहूं देवदारु । तैः क्वाथः । एष योगो लोके देवदारुषट्क इति प्रसिद्धः।अथेति द्वितीयं योगमाह । विश्वजलदातिविषाकृतः क्वाथः। जलदं मुस्तम् । एष त्रिकार्षिक इति प्रसिद्धः। तृतीयं योगमाह। शुण्ठीघनप्रतिविषामृतवल्लिजो वा कषायः आमातिसारशमनः । अमृतवलिर्गुडूची। एष चातुर्भद्रक इति प्रसिद्धः ॥ १२४ ॥
१-विश्वादिक्वाथ-सोंठ, हरड़, मोथा, वच, अतीस, देवदारु मिलित २ तोले । काथार्थ जल ३२ तोला । अवशिष्ट क्वाथ ८ तोला । इस क्वाथ का नाम देवदारुषट्क भी है। २-सोंठ, मोथा, अतीस, मिलित २ तोला । क्वाथार्थ जल ३२ तोला । शेष ८ तोला । यह क्वाथ त्रिकार्षिक नाम से प्रसिद्ध है।३-सोंठ, मोथा, अतीस, गिलोय; मिलित २ तोला । क्वाथार्थ जल ३२ तोला । शेष ८ तोला । यह क्वाथ चातुर्भद्रक कहलाता है । ये तीनों क्वाथ आमातिसार को शान्त करते हैं ॥ १२४ ॥ इदानीं बिल्वादिकं सुश्रतोक्तं योगमाह
ततः कलिङ्गातिविषाब्दविल्वैः सवालकैरुत्वथितः कषायः । तस्मै सशूलाय सशोणिताय
सामाय शस्तोऽथ कलिङ्गषटः ॥ १२५ ॥ ततोऽनन्तरं कलिङ्गादिकषायः तस्मै सामाय शस्तः। कलिङ्ग इद्रयवः । अब्दं मुस्तम् । उत्क्कथितः कषायकल्पनया । सशूलाय शूलसंयुक्ताय । सशोणिताय शोणितसहिताय । तस्मै आतुराय सामाय आमसहिताय शस्तः प्रशस्तः । अथवा कलिङ्गषट्कः शस्तः अस्यामेवावस्थायामिति।