________________
. १०४
चिकित्साकलिका |
बस्तिशूलं, गुह्यं च गुदं च वङ्क्षणे च बस्तिश्च ते तथा तेषु शूलं गुह्यगुदवङ्क्षणबस्तिशूलं, सह तेन वर्त्तते इति । गुह्यं स्त्रियाः साधनं वराङ्गम् । गुदं पायुः । वङ्क्षणे गण्डिके । बस्तिर्मूत्राशयः । अनिलप्रतिबद्धविट्कं, अनिलो वायुः, तेन प्रतिबद्धं विट् पुरीषं यस्य स तथा तम् । पेयादिभिरिति - पेया आदिर्येषां ते पेयादयः । पेयां विलेपीमकृतं कृतं च यूषमित्यादयः । लङ्घनं आद्यं येषां पेयादीनां ते पेयादयो लङ्घनाद्यास्तैदोषानुरूपविहितैः । दोषाः पवनादयस्तदनुरूपेण विहिताः कृताः दोषानुरूपविहितास्तैः । इति पूर्वोक्तेनैव प्रकारेण भिषक् ऊहापोहवित् तमामातिसारं चिकित्लेदिति ॥ १२२ ॥
गुह्य, गुदा, वंक्षण (जंघासे) तथा वस्ति में शूल, मलवात से उत्पन्न मलबन्ध तथा रक्त प्रवाह युक्त आमातिसार में वात आदि दोष के अनुसार लंबन प्रभृति क्रिया तथा पेया आदि पथ्य द्वारा रोगी की चिकित्सा करें ॥ १२२ ॥
प्राक् पेयादिभिश्चिकित्सेदित्युक्तमतः पेयादीन् प्राहःप्राक् पञ्चकोलकजलप्लुततण्डुलाभिः
पेयाभिरप्यथ पृथक् लघुलाजमण्डैः ।
मृद्वोदनैर्मधुरदाडिमयूषयुक्तैरामातिसारशमनैरुपदिष्टपथ्यैः ।। १२३ ।।
1
पेयादिभिश्चिकित्सेत् । प्राक् प्रथमम् । पञ्चकोलकजलप्लुततण्डुलाभिः पञ्चकोलकेन संस्कृतं जलं पञ्चकोलकजलं तेन प्लुतास्तण्डुला यासु पेयासु तास्तथा ताभिः । अर्थ पृथक्लघुलाजमण्डैः अथवा पृथक् वातादिप्रत्यनीकसंस्कृता ये लघुलाजमण्डास्तैः । मृद्रोदनैर्मधुरदाडिमयूषयुक्तैः मृद्रोदनैः । क्लिनसिक्थैर्मकैः । मधुरदाडिमेन संस्कृतो यूवो मधुरदाडिमयूषः तेन युक्तानि यान्योदनानि तैः । अन्यैरप्युपदिष्टैः पथ्यैः आमातिसारशमनैश्चिकित्सेदिति ॥ १२३ ॥
पञ्चकोलजल से सिद्ध चावलों की पेया, अथवा वात आदि दोपहर औषध से संस्कृत लाजा (खील) का मण्ड, अथवा मीठे अनार के रस से सिद्ध यूष युक्त मृदु ओदन एवं अन्य आमातिसार को शान्त करने वाले पथ्यों से रोगी की चिकित्सा करें ॥ १२३ ॥