________________
१०६
चिकित्साकलिका। बिल्वादिकाथ-कलिंग (इन्द्रजौ), अतीस, मोथा, बिल्वफलमजा (बेल का गूदा), गन्धबाला; मिलित २ तोला । क्वाथार्थ जल ३२ तोले । शेष काथ ८ तोला । यह बिल्वादिक्वाथ अथवा कलिंगषट्कक्वाथ शूल तथा रक्तप्रवाह युक्त आमातिसार में प्रशस्त है ॥ १२५ ॥ पूर्व कलिङ्गषट्कः शस्त इत्युक्तं साम्प्रतं तदाह
सहरीतकीप्रतिविषारुचकं सवचं सहिङ्ग सकलिङ्गयवम् । इति तत्कलिङ्गयवषटकमिदं
रुधिरातिसारगदशूलहरम् ॥ १२६ ॥ इत्येतत् पूर्वोक्तेन प्रकारेण । हरीतकी च प्रतिविषा च रुचकं च तानि तथा तैः सह वर्त्तत इति सहरीतकीप्रतिविषारुचकम् । रुचकं सौवर्चलम् । सह वचया वर्त्तत इति सवचम् । सह हिङ्गुना वर्त्तत इति सहिङ्गु । सह कलिङ्गयवैवर्त्तत इति सकलिङ्गयवम् । कलिङ्गयवा इन्द्रयवाः । कलिङ्गषट्कमिति पूर्वाचार्यसंज्ञेयम् । रुधिरप्रधानोऽतिसारो रुधिरातिसारः तदाख्यो गदो रुधिरातिसारगदः । स च शूलञ्च रुधिरातिसारगदशूले, ते हरतीति रुधिरातिसारगदशूलहरमिति।।
कलिंगषट्कक्वाथ-हरड़, अतीस, सौंचलनमक, वचा, हींग, इन्द्रजौ; इनका क्वाथ रक्तातिसार तथा शूल को हरता है ॥ १२६ ॥ इदानीमामातिसारप्रत्यनीकद्रव्यसंस्कृतां हरीतकीमाह
स्विन्नामबिल्वयवगोक्षुरकोरुवूकच्छिन्नोद्भवातुषजलैर्मधुनावलीढा ।। बद्धाल्पविद्कमतिशूलमसृग्विमिश्र
मामातिसारमपहन्ति हरीतकीयम् ॥ १२७ ॥ इयं हरीतकी आमातिसारं अपहन्ति । कीदृशी ? स्विन्ना । कैः ? आमबिल्वयवगोक्षुरकोरुध्कच्छिन्नोद्भवातुषजलैः। आमबिल्वं च यवाश्च गोक्षुरकश्च उरुवूकश्च छिन्नोद्भवा च तुषजलं च तानि, तथा तैः । आमबिल्वमपक्वबिल्वम् । यवगोक्षुरको प्रसिद्धौ । उरुवूकः एरण्डः । छिन्नोद्भवा गुडूची । तुषजलं कालिकम् । कल्पना च-आमबिल्वादीनां