________________
ज्वरचिकित्सा। पूर्व षट्पलं पृथु चेत्युकं इदानीं तत् पृथुषट्पलमाह
पूतीकानिकपनकोलरुचकैः साजाजियुग्मोद्भिदैः सक्षारैः सबिडैः सहिंगुहपुषासिन्धूद्भवैः कल्कितैः । शुक्तेनाकसंभवेन च रसेनैतन्महाषट्पलं
सर्पिः पक्कमरोचकामिसदनप्लीहोदरश्वासजित् ।।११८।। एतन्महाषट्पल सर्पिः अरोचकादिजित् । किंभूतम् ? पूतीकादिपक्कम् । पूतीकश्चिरबिल्वकः । अमिकः शिखी । पञ्चकोलं पूर्वोकम् । रुचकः सौवर्चलः । अजाजीयुग्मं जीरकद्वयम् । औद्भिदं क्षारलवणम् । क्षारो यवक्षारः । बिडहिगुहपुषासिन्धूद्भवानि प्रसिद्धानि । कल्कीकृतैद्रवपिष्टैः एमिः । शुकं चुक्रम्।शुकाकरसाभ्यां पक्कम् । पाककल्पनात्रघृतप्रस्थः कल्कश्चतुर्थभागः । चुक्रमाकरसः प्रत्येकं चतुर्गुणो
रोचकादीन जयति । अग्निसदनं अग्निमान्यम् । ननु च पूर्वोक्तपञ्चकर्माधिकारे स्नेहविधौ षट्पले प्रोके कस्मात्तयोः पुनरत्राभिधानम् ? तदुच्यते योगान्यत्वात्। तत्रोक्त षट्पले दुग्धसैन्धवाभ्यां संस्कारः । ज्वरोके तु सलिलेन । स्नेहविध्युक्तमहाषट्पलात् जीरकद्वययवक्षारलवणहिगुहपुषाशुक्तैरधिकैः संस्कारोज्वरोक्ते महाषट्पले। स्नेहविध्युक्तषद्पलमहाषट्पलयोर्ध्वरहरश्रुतेरभावात् इत्ययं विशेष इति ॥ ११८ ।।
महाषट्पलघृत-गव्यघृत २ प्रस्थ । शुक्त ८ प्रस्थ । अदरख का रस ८ प्रस्थ। कल्कार्थ-करञ्जबीज, चित्रक, पञ्चकोल (पिप्पली, पिप्पलीमूल, चव्य, चित्रक, सोंठ, मिलित), श्वेतजीरा, कालाजीरा, उद्भिदलवण (रेह का नमक), यवक्षार, बिडनमक, हींग, हपुषा (हाउबेर) सन्धानमक; प्रत्येक आधा पल । यथाविधि घृत पाक कर सेवन कराने से अरुचि, अग्निमान्द्य, प्लीहोदर तथा श्वासरोग नष्ट होता है। मात्रा-आधातोला ॥ ११८॥
इदानीं पिप्पल्यादिघृतमाहकृष्णातामलकीधनप्रतिविषासिंहीस्थिरासारिवाविश्वोशीरकलिङ्गबिल्वकटुकात्रायन्तिकाचन्दनः । सद्राक्षामलकामिभिः पिचुमितैः प्रस्थं पचेत्सर्पिषः कासश्वासहलीमकारुचिवमीगुल्मज्वरनं नृणाम् ॥ ११९ ।।