SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ चिकित्साकलिका | इत्यौषधानुचरणेन इति पूर्वोक्तप्रकारेण लंघनोष्णोदकयवागूपाचनादिनौषधानुचरणेन बलासे श्लेष्मणि हृते । जीर्णज्वरे। जीर्णत्वं च ज्वराणां पक्षादूर्ध्वं द्वादशाहगते भवति । तथा च हारीतः - “ आसप्तरात्रात्तरुणं ज्वरमाहुश्चिकित्सकाः । मध्यमं द्वादशाहं तु जीर्णज्वरमतः परम् " ॥ मरुति वाते किञ्चिन्मनाक उपप्लुते प्रकुपिते । अस्यामवस्थायामाज्यं घृतं स्यात् भवेत् ॥ वातादिजिद्गुणपयःश्रुतम् । वातादीन् जयन्तीति वातादिजित् ते च ते गणाश्च वातादिजिद्गणाः । एतदुक्तं भवति -रास्नादिपिप्पल्यादिभिः पयसा क्षीरेण शृतं पक्कं उक्तं घृतं षट्पलं वा भवेत् अथ पृथुषट्पलं वा महाषट्पलं वा भवेदिति । तथा च चरकःज्वराः कषायैर्वमनैर्विरेकैर्लघुभोजनैः । रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितमिति ॥ ११६ ॥ १०० लंघन, उष्णजल, यवागू तथा पाचन आदि औषध के सेवन से कफ के नष्ट होने पर, जीर्णज्वर में तथा वात के किञ्चित् प्रकुपित होने पर वातादिदोषनाशक गण तथा दूध द्वारा सिद्ध घृत, षट्पलघृत अथवा महाषट्रपलघृत का सेवन कराना चाहिये ॥ ११६ ॥ प्रागुक्तं षट्पलं भवेदिति साम्प्रतं तदाहविश्वाग्निचव्यमगधामगधाजटाभि राभिः पलप्रमितिभिः सयवाग्रजाभिः । सर्पिः श्रुतं पयसि षट्पलमेतदर्श:प्लीहोदरे ज्वरिषु गुल्मिषु पथ्यमुक्तम् ।। ११७ ॥ विश्वादितम् । विश्वं शुण्ठी । अग्निचित्रकः । चव्यं चविका । मगधा पिप्पली । मगधाजटा पिप्पलीमूलम् । आभिरमीभिः पलप्रमितिभिः पलप्रमाणाभिः । सयवाग्रजाभिः सयबक्षाराभिः । षट्पलमुकं सर्पिः । पयसि सलिले च चतुर्गुणे सर्पिःप्रस्थं शृतम् । एतत् पथ्यमुकं भाषितम् । केषु ? अर्श: प्लीहोदरे ज्वरिषु गुल्मिषु चेति ॥ ११७ ॥ षट्पलघृत-गव्यघृत २ प्रस्थ । जल ८ प्रस्थ । कल्कार्थ-सोंठ, चित्रक, चन्य, पिप्पली, पिप्पलीमूल, यवक्षार; प्रत्येक १ पल । यथा विधि घृत सिद्ध कर अर्श, लीहोदर, ज्वर तथा गुल्मरोग में रोगी को सेवन कराना चाहिये । मात्रा - आघा तोला ॥ ११७ ॥
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy