________________
ज्वरचिकित्सा। वा दशाभिवृद्धया वा पिबेत् क्षीरोदनाहारो दशरात्रम् । दशरात्रात् भूयश्चापकर्षयेत् यावत्पञ्च सप्त दश वेति । एतत्पिप्पलीवर्द्धमानं वातशोणितविषमज्वरारोचकपाण्डुरोगप्लीहोदरार्शःश्वासकासशोषशोफाग्निसादहृद्रोगोदराण्यपहन्ति । चरकमुनिनाप्युक्तम्-"दशपिप्पलिको ज्येष्ठो मध्यमः पञ्च कीर्तितः। यस्त्रिपिप्पलिपर्यन्तः स कनीयान् प्रकीर्तित इति" ॥ दुग्धप्रमाणं तूक्तं हारीतेन-"त्रिः पञ्च सप्तमगधाः प्रकुचं पयसा सह। पिबन क्रमाद्भवेन्नीरुक् पित्तवातकफान् जयेदिति” ॥ क्रमात् प्रकुञ्चं पयसेति प्रकुञ्चवृद्धेन पयसेत्यर्थः । तथाच भोजः-'त्रिः पञ्च सप्त दश वा पिप्पल्यः पयसा सह । प्रकुश्ववृद्धेन पिबन्नरः प्रोकान् गदान जयेत् ॥ दोषदेशर्तुसात्म्यादिवशतो वा यथाहितमिति'। एतेनैतदुक्तं भवति । तिसृषु त्रयः प्रकुश्चाः, पञ्चसु पञ्च, सप्तसु सप्त, दशसु दश पलानि पयसो भवन्त्येवमावृद्धेः । ह्रासोऽपि तथैव । ताश्च बलवद्भिश्चूर्णितामध्यबलैरुत्वाथताः पातव्या इति सम्प्रदायः।वचनमपि"ताः पिष्टा बलिभिः पेयाः शृता मध्यबलैनरैः । चूर्णीकृता ह्रस्वबलैर्देहदोषामयान् प्रति।" पिप्पलीशब्दस्य पुंल्लिङ्गानभिधानात् तिसृभिरिह कणाभिः पंचभिः सप्तभिर्वा दशभिरथ विवृद्धं पिप्पलीवर्द्धमानमिति पाठः सहृदयचमत्कारित्वात् ज्यायान् ॥११५॥
रोगी के बलानुसार प्रथम दिन ३, द्वितीय दिन ६, तृतीय दिन ९ पिप्पली; इसी प्रकार क्रमशः तीन २ पिप्पली बढाते हुए दस दिन तक प्रयोग करें तदनन्तर प्रतिदिन तीन २ पिप्पली घटाते जाय । इसीप्रकार प्रतिदिन ५ पिप्पली अथवा ७ पिप्पली अथवा १० पिप्पली के वर्धमानकयोग के सेवन से श्वास, कास (खांसी), ज्वर, उदररोग, अर्श, वातरक्त तथा क्षय प्रभृति रोग नहीं होते।
पिप्पली के अत्यन्त उष्णवीर्य होने के कारण आजकल इस मात्रा में प्रयुक्त करना हानिकारक है । अतः पिप्पली की जगह उपर्युक्त संख्या में ही पिप्पली के दाने लेने चाहिये । इन दानों को उपर्युक्त प्रयोगविधि के अनुसार सेवन करें ॥ ११५॥ इदानीं ज्वरिणो यस्यामवस्थायां घृतोपयोगः क्रियते तामाह
इत्यौषधानुचरणेन हृते बलासे । जीर्णज्वरे मरुति किश्चिदुपप्लुते च । वातादिजिद्गणपयःशृतमुक्तमाज्यं स्यात्षट्पलं पृथुभवेदथ षट्पलं वा ॥ ११६ ॥