________________
चिकित्साकलिका। साम्प्रतं चातुर्थकस्य विशेषचिकित्सितमाह
पथ्यास्थिरानागरदेवदारुधात्रीवृषैरुत्कथितः कषायः। सितोपलामाक्षिकसंप्रयुक्त
चातुर्थकं हन्त्यचिरेण पीतः ॥११४ ॥ पथ्यादिभिरुत्वथितः कषायश्चातुर्थकं हन्ति । पथ्या हरीतकी। स्थिरा शालिपर्णी। नागरं शुण्ठी। देवदारुः प्रसिद्धः। धात्री आमलकी । वृषो वासकः । सितोपलामाक्षिकसंप्रयुक्तः । सितोपला शर्करा, . माक्षिकं मधु ताभ्यां कर्षेण संयुक्तः शीतः कषायः पीतोऽचिरेणैव कालेन हन्तीति ॥ ११४ ॥
___ हरड़, शालपर्णी (सरिवन), सोंठ, देवदारु, आंवला, अडूसाछाल; मिलित २ तोला। काथार्थ जल ३२ तोला। शेष ८ तोला। इस काथ में मिश्री तथा शहद; मिलित आधा तोला का प्रक्षेप देकर पीने से चातुर्थक ज्वर शीघ्र नष्ट होता है ॥ ११४॥ इदानीं सर्वेषामेव विषमज्वराणां पिप्पलीवर्द्धमानमाह
त्रिभिरथ प्रवृद्धं पञ्चभिः सप्तभिर्वा दशभिरथ विवृद्धं पिप्पलीवर्धमानम् । इति पिबति पुमान् यस्तस्य न श्वासकास
ज्वरजठरगदाशेवातरक्तक्षयाः स्युः ॥ ११५ ॥ यः पुमान् पिप्पलीवर्द्धमानं पिबति तस्य श्वासादयो न स्युः न भवेयुः । पिप्पलीवर्द्धमानं कथम् ? त्रिभिः परिवृद्धं त्रिभिः त्रिभिः पिप्पलीभिः परिवृद्धिः क्रियते दशदिनानि यावत् । ततः पुनस्तिस्रस्तिस्रो ऽपकर्षयेत् यावत्तिस्रः पिप्पल्यो भवन्ति । एवं पञ्चवृद्धिरपकर्षश्च । तथा सप्तवृद्धिरपकर्षश्च । तथा च दशवृद्धिरपकर्षश्च । दशदिनानि यावद् वृद्धिः पुनरपकर्षणं क्रमेणैव कार्यम् । एवमेकोनविंशतिदिनानि प्रयोगों भवति । ताश्च क्षीरपिष्टाः क्षीरोदनाहारेण पातव्याः । इति पूर्वोक्तेन न्यायेन यः पुमान् पुरुषः पिबति तस्य श्वासादयो रोगा न स्युन भवेयुः। त्रिपञ्चसप्तदशवृद्धिश्वरकसुश्रुतयोदृष्टा वयोदोषापेक्षा । तथा च सुश्रुतः-पिप्पलीर्वा क्षीरपिष्टाः पश्चाभिवृद्धया सप्ताभिवृद्धया