________________
ज्वरचिकित्सा। इदानी सततान्येद्यष्कतृतीयकचतुर्थकादीनां विषमज्वराणां चिकित्सितमाह
पटोलयष्टीमधुतिक्तरोहिणीघनाभयाभिर्विषमज्वरापहः। कृतः कषायत्रिफलामृतावृषैः
पृथक् पृथग्वा विषमज्वरापहः ॥ ११२ ॥ पटोलादिभिः कृतः कषायो विषमज्वरापहः भवति । तितरोहिणी कटुका । घनं मुस्तम् । अभया हरीतकी । द्वितीयस्त्रिफलामृतावृषैः कृतः कषायो विषमज्वरापहः । हरीतक्यामलकबिभीतकानि त्रिफला। अमृता गुडूची ।वृषो वासकः। एभिरेवं पटोलादिभिः पृथक् पृथगेकैकशो वा कृताः कषाया विषमज्वरापहा भवन्ति । विषमत्वं च ज्वराणां अनियत कालशीतोष्णवेगकृतम् । तथा च ग्रन्थान्तरम्-'यस्मादनियतात्कालात् शीतोष्णाभ्यां तथैव च । वेगतश्चातिविषमो ज्वरः स विषमः स्मृत इति" ॥ ११२॥
पटोलपत्र, मुलहठी कुटकी, मोथा, हरड़; इनका काथ अथवा त्रिफला, गिलोय, असाछाल; इनका यथाविधि साधित काथ विषमज्वर को नष्ट करता है ॥ ११२ ॥ इदानीं तृतीयकस्य विशेषचिकित्सितमाह
सनागरोशीरधनः संधान्यः सपिप्पलीकश्च सचन्दनश्च । तृतीयकं हन्ति कृतः कषायः
समाक्षिकश्चापि सशर्करश्च ॥ ११३ ॥ नागरादिकृतः कषायस्तृतीयकं हन्ति । सनागरोशरिघनः, नागरं च उशीरं च धनं च तानि तथा तैः सह वर्तत इति सनागरोशारघनः कषायः । नागरं शुण्ठी । उशीर वारणम् । घनं मुस्तम् । सधान्यः -:सधनीयकः । सपिप्पलीकश्च सचन्दनश्च । पिप्पलीरक्तचन्दनाभ्यां सह । समाक्षिकश्चापि सशर्करश्च । सनागरादिकृतः कषायः पातो माक्षिकशर्कराकर्षयुक्तः तृतीयकं ज्वरं हन्ति ॥ ११३॥
___ सोंठ, खस, मोथा, धनिया, पिप्पली, लालचन्दन, इनसे यथाविधि साधित काथ में शहद तया सांड का प्रक्षेप देकर पीने से तृतीयक ज्वर नष्ट होता है ॥ ११३॥