________________
चिकित्साकलिका |
साम्प्रतं वातश्लेष्मज्वरापहमारोग्यपञ्चककषायमाह - तिक्ताभयाग्रन्थिक राजवृक्षैः
सवारिदैरुत्क्वथितः कषायः । पीतः सशूलाममरुद्वलासज्वरापहः पाचनदीपनश्च ॥ १०७ ॥
तिक्तादिभिः कथितः कषायः पतिः सन् ज्वरापहो भवति । तिक्ता कटुका । अभया हरीतकी । ग्रन्थिकं पिप्पलीमूलम् । राजवृक्षः किरमालकः तस्य शिम्बिः तैः । सवारिदैः समुस्तैः उत्कथितः क्वाथीकृतः । पीतः पानविधिना । सशूलाम मरुद्वलासज्वरापहः । मरुद् वायुः । बलासः श्लेष्मा, मरुश्च बलासश्च मरुद्वलासौं । आमश्च तौ मरुद्वलासौ च आममरुद्वलासौ ताभ्यां ज्वरः । सशूलश्चासौ आममरुद्वलासज्वरश्च स तथा । तमपहन्तीति सशूलाम मरुद्वलासज्वरापहः । पाचनो दोषाणां दपिनश्चाग्ने रिति ॥ १०७ ॥
९४
कुटकी, हरड़, पिप्पलीमूल, अमलतास, मोथा; इनके क्वाथ को उपर्युक्त विधान के अनुसार सिद्ध करके रोगी को सेवन कराया जाय तो शूल तथा आमयुक्त वातकफज ज्वर नष्ट होता है । यह क्वाथ पाचन तथा अग्निप्रदीपक है । इसमें अमलतास को छोड़ कर शेष का क्वाथ करें और पीछे से अमलतास के गूदे को मसल दें तो उत्तम होगा। अन्यत्र क्वाथ योगों में भी इसी प्रकार जानना चाहिये ॥ १०७॥ इदानीं कृष्णादिकं व्याघ्रयादिकं च ज्वरापहं योगद्वयमाहकृष्णाग्निपथ्यामलकैः कषायः कृतः समस्तज्वरहाग्निहेतुः । व्याघ्रीगुडूचीवृषजोऽथ कास
श्वासज्वरनश्च सपिप्पलीकः ॥ १०८ ॥
कृष्णादिभिः कृतः कषायः समस्तज्वरहा भवति । कृष्णा पिप्पली । अनिश्चित्रकः । पथ्या हरीतकी । आमलकं धात्रीफलम् । समस्तान् वातादिज्वरानपहन्तीति समस्तज्वरहा। अग्निहेतुर्जाठराग्निकारणम् । व्याघ्रयादिभिश्च । व्याघ्री कण्टकारिका । सपिप्पलीकः सपिप्पलीचूर्णः । कासश्वासज्वरघ्नः । कासश्च श्वासश्च कासश्वासौ ताभ्यां सहितो ज्वरः, तं हन्तीति कासश्वासज्वग्न इति ॥ १०८ ॥