________________
चिकित्साकलिका। सह ताभ्यां वर्तत इति सरुप्रकम्पः, तं सरप्रकम्पम् । पवनप्रकोपजं वातप्रकोपजं ज्वरं प्रणाशयेत् विनाशयेदिति । मांसरसश्च विदेहोक्तया कल्पनया साध्यते । “स्नेहाश्चतुर्गुणं मांसं मांसादष्टगुणं द्रवम्। सौरभं स्नेहपादेन तत्तल्यं लवणं स्मृतम्। स्नेहार्द्धनाकं दद्यात् कल्पितं लवणीकृतम्। स्नेहात् पादार्द्धमानेन योजयेत्कासमईकम् ॥ धूपने तु ततोऽर्द्धन तत्पादेन तु रामठम् । कुर्यात् स्नेहसमं सूदः फलाम्लं पाकसंविधौ ॥ पेयायूषरसादीनां प्रमाणं यत्र नोदितम् । तत्रेयं कीर्तिता मात्रा बलेनामिततेजसेति ॥ १०४ ॥
लावा, कृष्णहरिण, मोर, तीतर इनमें से किसी एक के मांस से सिद्ध तथा . . अनार के रस से युक्त यूष के सेवन द्वारा वेदना तथा कम्प युक्त वातिक ज्वर को नष्ट करना चाहिये ॥ यदि १ पल मांस का यूष बनाना हो तो १६ पल जल डालकर पाक करें। जब ४ पल शेष रह जाय तब छानलें। इसमें मांस के साथ ही उपयुक्त मात्रा में अनारदाना डाल देना चाहिये ॥ १०४ ॥
इदानीं कृतपेयाक्रमस्य ज्वरस्योपशमार्थ दशरात्रादूर्ध्व पाचन शमनान् योगानाह
ततश्च विश्वाब्ददुरालभामृताः किरातदुःस्पर्शपयोदपर्पटाः। वृषाब्दविश्वौषधधन्वयासकाः
समीरणादिज्वरनाशनाः स्मृताः ॥ १०५ ॥ ततश्च पथ्यादिक्रमानन्तरं समीरणादिज्वरनाशनाय यथासंख्येन विश्वादयस्त्रयो योगाः स्मृताः पूर्वाचार्यैः। विश्वादीनामितरेतरद्वन्द्वः । विश्वं शुण्ठी। अब्दं मुस्तम्। दुरालभा दुःस्पर्शा । अमृता गुडूची। वातजे ज्वरे । किरातं किराततितम् । दुःस्पर्शा धन्वयासकः । पयोदं मुस्तम् । पर्पटः कल्याणकः। पित्तजे ज्वरे । वृषो वासकः। अब्दं मुस्तम्। विश्वौषधं शुण्ठी । धन्वयासको दुरालभा। श्लेष्मजे ज्वर इति ॥१०५॥
१-हिङ्ग्वार्द्रमरिचं जीरं हरिद्रा धान्यकं तथा ।क्रमेण वर्द्धितं सर्व वेसवारमिदं शुभम् ॥ स्तोकेन वारिणा सर्व वण्टितं वस्त्रगालितम् । मात्रया व्यञ्जने देयं कासमदं च तत्स्मृतम् । इति क्षेमकुतूहले । हिमवाईकमरिचजीरकहरिद्राधन्याकाः क्रमेण द्विगुणपरिमाणेनैकत्रीकृता वेसवार इति पाकराजेश्वरे पाकपरिभाषा ॥