________________
ज्वर चिकित्सा |
साम्प्रतं कफज्वरस्य विशेषेण पथ्यमाह - सशीतनिद्रारुचिगौरवाधिकं कफज्वरं मुद्रदलोदकोदनैः । समीदाहमनल्पपित्तजं
९१
जयेत्सितामाक्षिकलाजसक्तभिः ॥ १०३ ॥
कफज्वरं जयेत् । कीदृग्गुणविशिष्टम् ? सशीतनिद्रारुचिगौरवाधिकम् । सह शीतेन निद्रा सशीतनिद्रा । सशीतनिद्रा च अरुचिश्च गौरवं च सशीतनिद्रारुचिगौरवाणि । तान्यधिकानि यस्मिन् कफज्वरे स तथा तं जयेत् । कैः ? मुद्द्रदलैः संस्कृतमुदकं मुद्द्रदलोदकं तेन सह ओदनानि मुद्रदलोदकोदनानि तैर्जयेदिति । अनल्पपित्तजं बहुपित्तजम् । सतृकमीदाहम् । तृट् च वमी च दाहश्च तुडुमीदाहाः । सह तैर्वर्त्तते इति सशृङ्कमीदाहः । तं च सितामाक्षिकलासक्तभिर्जयेत् ॥ सिता शर्करा । माक्षिकं मधु । लाजसक्तवः रक्तशालिषष्टिककलमानां भृष्टानां शुक्ललक्ष्णचूर्णानीति ॥ १०३ ॥
शीत, निद्रा, अरुचि तथा शरीर का भारीपन; इन लक्षणों से युक्त कफप्रधान ज्वर में मूंग की दाल के पानी और ओदन तथा च प्यास, कै तथा दाह आदि लक्षणों से युक्त पित्तप्रधान ज्वर में सिता ( खांड ), माक्षिक (शहद) एवं लाजा के सत्तू पथ्य हैं ॥ १०३ ॥
साम्प्रतं निरामस्य वातज्वरस्य मांसरसमाह
सलावसारंगमयूरतित्तिरिप्रकल्पितैर्मांसरसैः सदाडिमैः । सरुक्प्रकम्पं पवनप्रकोपजं
प्रणाशयेत्प्राणभृतामिति ज्वरम् ॥ १०४ ॥
पवनप्रकोपजं ज्वरं प्रणाशयेत् । केषां ? प्राणभृतां प्राणिनामिति । एषां लावादीनां मांसरसैः । लावो विष्किरविशेषः । सारङ्गो हरिणजातिः । मयूरो बर्हिः । तित्तिरिः प्रसिद्धः । लावादिभिः प्रकल्पिता ये मांसरसाः सदाडिमाः तैः । सरुक्प्रकम्पं, रुक् च प्रकम्पश्च रुक्प्रकम्पौ