________________
समासाश्रयविधयः । विभाषा पुरुषे ।।३।१०६॥ कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्व, विप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥ कवं चोष्णे।६।३।१०७॥ उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥ पृषोदरादीनि यथोपदिष्टम् ।६।३।१०९॥ पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः उत्तरपदादेश्च लत्वम् ॥ भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥ १ ॥ दिक्शब्देभ्यस्तीरस्य तारभावो वा * ॥ दक्षिणतारम् । दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम् । दुरो दाशनाशदभध्येषत्वमुत्तरपदादेः ष्टुत्वं च * ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूढभः । खल त्रिभ्यः । दम्भेनलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । आतश्चेति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥ संहितायाम् ।६।३।११४ ॥ अधिकारोऽयम् ॥ कर्णे लक्षणस्याऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रवखस्तिकस्य ।६।३।११५ ॥ कर्णे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम् । शोभनकर्णः । अविष्टादीनां किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । खस्तिककर्णः ॥ नहिवृतिवृषिव्यधिरुचिसहितनिषु को ।६।३।११६ ॥ विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । क्वाविति किम् । परिणहनम् । विभाषा पुरुष इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ॥ वनगिर्योः संज्ञायां कोटेरकिंशुलुकादीनाम् ।६।३।११७॥ कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे दीर्घः स्यात्संज्ञायाम् ॥ वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः ।।४।४।॥ वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति किम् । असिपत्रबनम् । वनस्याग्रे अग्रेवणम् राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥ वले ।६।३।११८ ॥ वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥ मतो बचोऽन जिरादीनाम् ।६।३।११९ ॥ अमरावती । अनजिरा
१ पृषोदर, पृषोत्थान, बलाहक, जीमूत, श्मशान, उलूखल, पिशाच, बृसी, मयूर, । इति पृषोदरा. दिराकृतिगणः॥ २ कोटर, मिश्रक, सिध्रक, पुरग, शारिक । इति कोटरादिः॥ ३ किंशुलुक, शाव, नड, अजन, भजन, लोहित, कुक्कुट । इति किंशुलुकादिः॥ ४ अजिर, खदिर, पुलिन, हंस, कारण्डव, चक्रवाक । इत्यजिरादिः॥