________________
९६
सिद्धान्तकौमुद्याम् दीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥ शरादीनां च ६३।१२०॥ शरावती ॥ इको वहेऽपीलोः ।६।३।१२१॥ इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । कपीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलवहम् ॥ अपीत्वादीनामिति वाच्यम् * ॥दारुवहम् ॥ उपसर्गस्य घञ्यमनुष्ये बहुलम् ।।३।१२२ ॥ उपसर्गस्य बहुलं दीर्घः स्याद्धान्ते परे न तु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥ इकः काशे ।६।३।१२३ ॥ इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः ॥ अष्टनः संज्ञायाम् ।६।३१२५ ॥ उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः ॥ चितेः कपि ।६।३११२७॥ एकचितीकः द्विचितीकः ॥ नरे संज्ञायम् ।६।३।१२९ ॥ विश्वानरः ॥ मित्रे चर्षों ।।३।१३० ॥ विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ॥ शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः * ॥ श्वादन्तः । इत्यादि । प्रनिरन्तः. शरेक्षुप्लक्षाम्रकायॆखदिरपीयूक्षाभ्योऽसंज्ञायामपि ।८४।५॥ एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्फावणम् । इह षात्परत्वाण्णत्वम् ॥ विभाषौषधिवनस्पतिभ्यः ।।४।६॥ एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीपवणम् । शिरीषवनम् ॥ व्यच्च्यज्भ्यामेव * ॥ नेह । देवदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः * ॥ नेह । इरिकावनम् । मिरिकावनम् ॥ वाहनमाहितात् ।।४।८ ॥ आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात्किम् । इन्द्रवाहनम् । इन्द्रखामिकं वाहनमित्यर्थः । वहतेयुटि वृद्धिरिहैव सूत्रे निपातनात् ॥ पानं देशे ।८४।९॥ पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥ वा भावकरणयोः ।८।४।१०॥ पानस्येत्येव । क्षीरपानम् । क्षीरपाणम् । गिरिनद्यादीनां वा * ॥ गिरि दी । गिरिणदी। चक्रनितम्या । चक्रणितम्घा ॥ प्रातिपदिकान्तनुम्विभक्तिषु च ।८।४।११॥ पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषावापिनावित्यादि । उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् । नेह । गर्गाणां भगिनी गर्गभगिनी । अत एव नुम् ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य ।
१ शर, वंश, धूम, अहि, कपि, मणि, मुनि, शुचि, हनु । इति शरादिः ॥ २ पील्वादिराकृतिगणः॥ ३ अमनुष्यादिष्विति वक्तव्यम् * । प्रसेवः, प्रसारः, प्रहारः, सादकारयोः कृत्रिमे * । एषोऽस्य प्रासादः । एषोऽस्य प्राकारः । कृत्रिम इति किमर्थम् । एषोऽस्य प्रसादः । प्रकारः । प्रतिवेशादीनां विभाषा, * । प्रतिवेशः । प्रतिकारः प्रतीकारः । बहुलग्रहणस्यैवायं प्रपञ्चः ॥. ४ अभियुक्तोक्तिरियम् ॥ ५ इरिका, मिरिका, तिमिरा । इतीरिकादिराकृतिगणः॥ ६ गिरिनदि, गिरिनख, गिरिनड्य, गिरिनितम्ब, चक्रनदी, चक्रनितम्ब, तूर्यमान, माषोन, आर्गयन । इति गिरिनद्यादिराकृतिगणः॥