________________
समासाश्रयविधयः ।
किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुम्नादि - त्वान्न || युवादेर्न * ॥ रम्ययूना । परिपक्वानि ॥ एकाजुत्तरपदे णः ॥ नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा || कुमति च |८|४|१३ ॥ कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥ पदव्यवायेऽपि |८|४ | ३८ || पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन || अतद्धित इति वाच्यम् * ॥ आर्द्रगोमयेण ॥ शुष्कगोमयेण ॥ कुस्तुम्बुरुणि जातिः | ६ |१| १४३ ॥ अत्र सुनिपात्यते । कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुस्तुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥ अपरस्पराः क्रियासातत्ये | ६ | १|१४४ ॥ सुन्निपात्यते । अपरस्पराः साथ गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥ गोष्पदं सेवितासेवितप्रमाणेषु । ६।१।१४५ ॥ सुट् स्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोपदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥ आस्पदं प्रतिष्ठायाम् |६| १|१४६ || आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् || आश्चर्यमनित्ये | ६ | १|१४७ ॥ अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् । आचर्यं कर्म शोभनम् || वर्चस्केऽवस्करः | ६|१|१४८ ॥ कुत्सितं वर्चः वर्चस्कम् अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम् । अवकरः ॥ अपस्करो रथाङ्गम् |६|१|१४९ ॥ अपकरोऽन्यः ॥ विष्किरः शकुfafa ar | ६|१|१५० ॥ पक्षे विकिरः । वावचनेनैव सुविकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो माभूदिति वृत्तिस्तन्न । भाष्यविरोधात् ॥ प्रतिष्कशश्च कशेः । ६।१।१५२ ॥ कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशेः किम् । प्रतिगतः कशां प्रतिक - शोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न || प्रस्कण्वहरिश्चन्द्रावृषी | ६ |१| १५३ ॥ हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥ मस्करमस्करिणौ वेणुपरिव्राजकयोः | ६|१|१५४ || मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्वित किम् । मकरो ग्राहः । मकरी समुद्रः ॥ कास्तीराजस्तुन्दे नगरे | ६ | १ | १५५ ॥ ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् || कारस्करो वृक्षः | ६|१|१५६ || कारं करोतीति
1
१ युवन्, पक्क । इत्यादिर्युवादिः ॥
१३